________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैधप्रकरणम्
नन्वेवमप्यनेकपदार्थसम्बन्धाद् युगपदनेकज्ञानोत्पादकं स्यात् ? न । करणस्यैकप्रत्ययनिर्वृत्तौ सामर्थ्यात् । तथा ह्य ेकं करणमेकस्मिन् कालेऽनेकां क्रियां न करोतीति, तस्माद् युगपत् प्रकाशनमेव घटादीनां न ग्रहणानीत्युक्तपूर्वम् ।
३९
यच्चेदम्, एकादिव्यवहारो गुणान्तरात् स्वभावाद् वेत्युक्तम्, तत्रैकत्वसामान्यवशादिति ब्रूमः । तथाहि द्रव्ये गुणसम्बन्धाद् एकादिव्यवहारो गुणे 5 च सामान्यसम्बन्धाद् सामान्येऽपि गुणसम्बन्धात् । न च ग्रहणपरम्परा, विशेषणज्ञानस्य नियमेन ज्ञानपूर्वकत्वानभ्युपगमात् । अथ संयुक्तसमवेतसमवायाद् एकत्वसामान्ये ज्ञानमुत्पद्यते, विशेषणत्वादित्युक्तम् । अनेकगुणविषयस्य विशेष्यज्ञानस्यैवासंवेदनात् । न । द्वित्वस्योत्पत्त्यन्यथानुपपत्त्या तत्सद्भावसिद्धेः । तथाहि यदि कारणगुणपूर्वप्रक्रमेण रूपादिवदुत्पद्यते 10 द्वित्वं प्रथमाक्षसन्निपातवेलायामेव ग्रहणं स्यात्, चिरोत्पन्नत्वात्, गणनावैयर्थ्यञ्च । न चैतत् । तस्मादनेकगुणविषयस्य ज्ञानस्यात्मवर्तिनोऽपि द्वित्वोत्पत्तौ कारणत्वं निश्चीयते, तद्विनाशाच्च विनाशः । अन्यथा हि समवाय्यसमवायिकारणयोविनाशाद् विनाशाभ्युपगमे तयोरनेककालमवस्थानात् स्थायित्वमेव स्यात् क्वचिन्नित्यत्वञ्च । तयोरविनाशादन्यस्य च विरोधि - 15 गुणस्यासम्भवात् । तस्मान्निमित्तकारणादेव विनाशः कल्प्यते ।
न चैवं घटादेर्निमित्तकारणविनाशाद् विनाशप्रसङ्गः, अदर्शनात् । अत्र तु समवाय्यसमवायिकारणयोरवस्थानेऽपि द्वित्वादेविनाशस्य दृष्टत्वाद् अपेक्षाबुद्धिविनाशाद् विनाशः कल्प्यते । अन्यथा हि रूपादिवदवस्थाने प्रथमाक्षसन्निपातकाल एव ग्रहणं स्यादित्युक्तम् । अथावस्थितस्यापि द्वित्वादेर्व्यञ्जका - 20 भावात् [ अनुपलम्भ: ], उपलम्भस्तु इदानीमुत्पन्नस्यापि घटत इत्यपेक्षाबुद्ध्यादेर्जनकत्वमेव न्याय्यम् । तस्माद् द्वित्वादिव्यवहारोत्तरकालं तदभावस्य संवेदनात् तदुत्पत्तौ कारणान्तरस्यासम्भवे सति अपेक्षाबुद्धिविनाशस्य कारणत्वमुक्तम् ।
For Private And Personal Use Only
अथ पूर्वं द्वित्वसामान्यज्ञानमनन्तरं गुणज्ञानं द्रव्यज्ञानञ्चेति कल्पनायां 25 किं प्रमाणम् ? विशेषणत्वमिति चेत्, न । विशेषणेऽपि विशेषणान्तरकल्पनायामनवस्थाप्रसङ्गात् । तथाहि 'द्वे द्रव्ये' इति द्रव्यज्ञानोत्पत्तौ गुणस्य विशेषण