________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०
व्योमवत्यां
10
___ अथ ज्ञातृव्यापारो ज्ञानं तच्च अर्थपरिच्छेदेऽनपेक्षमिति स्वतः ? नन्मिथ्याज्ञानेऽपि समानम् । अथ मिथ्याज्ञानं दोषमपेक्षते ? तहि सम्यग् ज्ञानमपि तदभावाद्यपेक्षत इति । न च ज्ञातृव्यापारः सम्भाव्यते, अर्थप्रति
पत्तेरन्यथाभावात् । तथा हि सर्वं कारकं चरमसहकारिसद्भावे सति कार्य 5 करोतीति न तस्मादन्यो व्यापारः, सद्भावेऽपि नित्यतायां सर्वकार्योत्पत्ति
प्रसङ्गस्तस्यानपेक्षकारणत्वाभ्युपगमात् । अनित्यत्वे तु तदुत्पत्तावपि निर्व्यापारस्य कारणत्वायोगादन्यो व्यापारस्तदुत्पत्तावप्यन्य इत्यनवस्था स्यात् । चरमसहकारिरूपे तु व्यापारे नायं दोषस्तत् सद्भावे कार्यकरणं न तदभाव इति ।
यच्चेदं कारकशुद्धेर्ग्रहणापेक्षितायां दूषणम्, तदपास्तम्, अनभ्युपगमे नेति । अथ प्रमाणस्य प्रामाण्यं विनैव प्रमाणं विज्ञायत इति, तदसत्, सर्वस्य प्रमेयस्य प्रमाणपरिच्छेद्यत्वोपलब्धः। तथा च प्रामाण्यं प्रमाणपरिच्छेद्य प्रमेयत्वाद् घटादिवत् । न चानवस्था, सर्वत्रावश्यं प्रामाण्यग्रहणानभ्युप
गमात् । यत्र हि ज्ञानोदये सति किमिदं सम्यमिथ्या वेति संशयोत्पत्तिस्तत्रैव 15 प्रमाणान्तरापेक्षा, अर्थप्राप्तिपर्यन्तव्यवहारसम्भवे वा अपेक्षाविनिवृत्तेर्नानवस्थादिदोषः ।
यदि च ज्ञानधर्मत्वात् प्रामाण्यस्य स्वसंवेद्यत्वमिष्येत, अप्रामाण्यमप्येवं स्यादिति कथं परतः ? तथा मिथ्याज्ञानोत्पादे न प्रवर्तते मिथ्यात्वस्य प्रतिपन्न
त्वात्, सम्यग्ज्ञानोत्पत्तौ च सम्यक्ताध्यवसाये किमिदं सम्यङ् मिथ्या वेति 20 संशयाद्यभावः ।
यच्चेदम् अवबोधकत्वेन प्रमाणस्य प्रामाण्यं दोषादर्शनमात्रेणैवावतिष्ठत इत्युक्तम्, तत्र यदि दोषादर्शनदोषज्ञानानुत्पत्तिर्न तया प्रामाण्यं ज्ञाप्यते, नापि क्रियत इति कथमनिश्चितस्थितेरवस्थानवचनम् ? अथ दोषदर्शनस्य बाधक
प्रत्ययस्य मिथ्यात्वज्ञापकत्वमिव तदभावज्ञानस्य प्रामाण्यज्ञापकत्वमिष्येत, तर्हि 25 तस्यापि प्रामाण्यमन्यस्माद् विज्ञायत इत्यनवस्था स्यात् । अथ ज्ञानोत्पत्तौ
संशयं विना न सर्वत्र प्रामाण्यग्रहणापेक्षेति परिहारः ? तहि न स्वतः प्रामाण्यम्, उत्पत्तौ ज्ञप्तौ च परापेक्षित्वाभ्युपगमात् ।
For Private And Personal Use Only