________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैधर्म्यप्रकरणम्
यत्तु साक्षाद्दर्शनादिः पुरुषस्य रागादिविनाशे व्याप्रियते न ज्ञानोत्पत्तावित्युक्तम्, तदसत् सम्यग्ज्ञानोत्पत्तावन्वयव्यतिरेकोपपत्तेः । यथार्थद्रष्टा तच्छिष्याणामुपदेष्टा चेति समुदितमाप्तलक्षणं यथार्थोपदेशे हेतुस्तदन्तरेणानुपदेशात् । यदि चान्वयव्यतिरेकवतोऽपि यथार्थदशित्वादे रागादिविनाश एव व्यापारः ? तर्हि रागादेरप्येतद्विनाशकत्वमेवेत्युभयं परतः स्यात् । तस्माद् रागादेरप्रामाण्योत्पत्ताविव यथार्थोपलम्भादेरपि सम्यग्ज्ञानोत्पत्तौ व्यापारोऽभ्युपगन्तव्यः ।
१६९
तथेन्द्रियाणामपि काचकामलादिदोषसद्भावे [sपि ?] मिथ्याज्ञानमेव तदभावे सम्यग्ज्ञानजननादुभयं परतः । परेणाप्यभावस्य कारणत्वमनेकधेष्टम् । यथा सदुपलम्भकप्रमाणपञ्चकव्यावृत्तेर्मानसज्ञानोत्पत्तौ पक्षधर्मताद्यनतमापाये च लिङ्गस्य मिथ्याज्ञानोत्पत्तावित्यादि । अथ काचकामलादेर्दोषस्य मिथ्याज्ञानोत्पत्तौ कारणतोपलब्धेः तदभावे तस्यैवानुपलब्धिर्न सम्यग्ज्ञानमिति चेत्, न, अन्वयव्यतिरेकवतोऽकारणत्वेऽतिप्रसङ्गात् [ यदि ? तथा ] च दोषाभावे ऽन्वयव्यतिरेकवानपि न सम्यग्ज्ञानोत्पत्तौ कारणं तत्सद्भावेऽपि न मिथ्याज्ञानोत्पत्तावित्युभयं स्वतः स्यात् । सर्गश्चेन्द्रियाणामुभयरूपस्य 15 कार्यस्योपलब्धेरुभयार्थमिति ज्ञायेत ।
For Private And Personal Use Only
यच्चेदं न कारणगुणपूर्वकं परिच्छेदकत्वं तदिष्यत एव अनुभवज्ञानस्येन्द्रियादुत्पन्नस्यार्थपरिच्छित्तिरूपत्वात् । तज्जनकञ्चेन्द्रियादिकारकं कारकान्तरापेक्षञ्चेति परतः प्रामाण्यम् । कारकसामग्रयन्तु न पश्चाद्भाविनिमित्तमपेक्षत इति । तदपेक्षया तूभयं स्वत इति न मिथ्याज्ञानं परतः स्यात् ।
२२
5
ननु दोषसद्भावे सति इन्द्रियं मिथ्याज्ञानं जनयति, तदभावे च सम्यग् ज्ञानमित्यभ्युपगमाद् उभयाभावे च उभयविकलं विज्ञानं कुर्यादित्येतदचोद्यम्, उभयविकलस्येन्द्रियस्यासम्भवात् । यथा हि पूर्वमसतां दोषाणामुत्पत्तिरूर्ध्वञ्च प्रध्वंस इति नास्त्युभयविकलमिन्द्रियम् । न चोभयविशेष- 20 विकलं ज्ञानत्वसामान्यं सम्भवति, सामान्यवतो विशेषयोगात् । यथा गोत्वसामान्याधारस्य शावलेयादिविशेष इति ।
10
25