________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणवैधयंप्रकरणम्
पटान्तरे सामर्थ्यावधारणादन्त्यतन्तुसंयोगसम्पादनायोपादीयन्ते । तदुत्पत्तौ चानपेक्षास्तदनन्तरमेवारभन्त इति द्रव्यारम्भे निरपेक्षः संयोगः । अत एवान्त्यसंयोगव्यतिरेकेण नान्या शक्तिः, तस्याश्चरमसहकारिरूपत्वादित्युक्तं पृथिव्यधिकारे ।
न च पूर्वस्य विरलदेशक्षणस्य विनिवृत्तावविरलदेशक्षणस्य विशिष्टस्यो- 5 त्पादे पटव्यवहारादलं संयोगकल्पनयेति वाच्यम्, क्षणभङ्गस्य प्रतिषेधात् । अवयवव्यतिरिक्तस्य चावयविनो व्यवस्थापनादिति ।
* गुणकारम्भे तु सापेक्षः * पश्चाद्भाविनिमित्तापेक्षत्वादिति । कथं ज्ञायत इत्याह * 'संयुक्तसमवायादग्नेवैशेषिकम्' (वै० सू०) इति वचनात् * अस्यार्थः, संयुक्तः पार्थिवेन परमाणुनाग्निस्तत्र समवायादग्ने: सम्बन्धिनं 10 वैशेषिकगुणमुष्णस्पर्शमपेक्षमाणः पार्थिवपरमाण्वग्निसंयोग: पाकजानारभते । अग्नेः सम्बन्धिनमुष्णस्पर्शमपेक्षमाणो वैशेषिकं रूपादिकमारभते ।
ननूष्णस्पर्शस्य चिरोत्पादान पश्चाद्भावित्वमस्ति, पूर्वोत्पत्रकारकापेक्षित्वं द्रव्यारम्भे संयोगस्येष्यत एवेत्यविशेषः स्थात् ? न, श्यामादिनिवृत्तिविशिष्टस्य पश्चाद्भावात् । तथा हस्तात्मसंयोगः पश्चाभाविनं प्रयत्नम- 15 पेक्षमाणो हस्ते कर्मारभते ।
नन्वेवमपि आत्ममन:संयोगस्य बुद्धयाधुत्पत्तौ न पश्चाद्भाविनिमित्तमस्ति, शरीरसम्बन्ध इति चेत्, न, तस्य पश्चाद्भावानुपपत्तेः । यद्यपि संहारावस्थायामात्ममनःसम्बन्धसद्भावेऽपि न ज्ञानम्, शरीरसम्बन्धे तु भवति । तथापि शुक्रशोणितसम्बन्धसमकालं मनःसम्बन्धाभ्युपगमादवश्यं 20 प्राक्तनसंयोगस्य निवृत्तिरिति न तदपेक्षया शरीरसम्बन्धश्चरमभावी । परिनिष्पण्णेऽपि च शरीरे मनसः क्रियाद्वारेण सम्बन्धात् तथा शरीरस्यापि भवतीति न तत्र पूर्वापरभावे प्रमाणमस्तीति ।
न चैवमात्ममनःसम्बन्धस्यानपेक्षित्वमेव, सुखदुःखादीनां निमित्तकारणानां तदुत्तरकाले भावात् । तथाहि, इच्छोत्पत्तावात्ममनःसम्बन्धस्य 25 सुखं स्मरणं वा पश्चाद्भावित्वादपेक्षाकारणम्, एवं द्वेषाद्युत्पत्तावपि दुःखादेः
For Private And Personal Use Only