________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
कारणत्वमभ्यूह्यम् । शरीरसम्बन्धस्य तु नियमेन पश्चाद्भावित्वं निषिध्यते, न कारणत्वमिति । एवं कर्मोत्पत्तावपि संयोगस्य न सर्वत्र चरमभाविनिमित्तिं ? त्तत्वं सम्भवतीति । तथा शाखादावुपरि पाषाणादिसंयोगाद् गुरुत्वापेक्षादधोगमनम्, नदीस्रोतसि च द्रवत्वापेक्षात् तृणोदकसंयोगात् तृणादौ 5 गमनञ्च गुरुत्वद्रवत्वयोः पश्चाद्भावित्वमस्तीति ।
नन्वेवं तहि ‘गुणकर्मारम्भे सापेक्षः' इत्ययुक्तं वाक्यम् ? न, अयोगव्यवच्छेदानभ्युपगमात् । तथा च गुणकारम्भ एव सापेक्षो न तु सापेक्ष एव, अनपेक्षितत्वस्याप्युपलब्धेः ।।
अथ कथंलक्षणः कतिविधश्चेति ? अप्राप्तयोः प्राप्तिः संयोगः । 10 स च त्रिविधः । अन्यतरकर्मजः, उभयकर्मजः, संयोगजश्च । तत्रान्यतर
कर्मजः कियावता निष्क्रियस्य, यथा स्थाणोः श्येनेन, विभूनाञ्च मूर्तः । उभयकर्मजो विरुद्ध दिक्रिययोः सन्निपातः, यथा मल्लयोर्मेषयोर्वा । संयोगजस्तु उत्पन्नमात्रस्य चिरोत्पन्नस्य वा अक्रियस्य कारणसंयोगि
भिरकारणैः कारणाकारणसंयोगपूर्वकः कार्याकार्यगतः संयोगः। स 15 चैकस्माद द्वाभ्यां बहुभ्यश्च भवति । एकस्मात् तावत् तन्तुवीरणसंयोगात
द्वितन्तुकवोरणसंयोगः द्वाभ्यां तन्त्वाकाशसंयोगाभ्यामेको द्वितन्तुकाकाशसंयोगः । बहुभ्यश्च तन्तुतुरीसंयोगेभ्य एकः पटतुरीसंयोगः ।
* अथ कथंलक्षणः कतिविधश्चेति * वाक्यं लक्षणस्य निर्णीतत्वाद व्यर्थम् ? न, लक्षणान्तराभिधित्सया अस्योपपत्तेः । यद्यप्युपसर्जनस्य प्राक् 20 लक्षणमुक्तम्, तथापि स्वातन्त्र्येण कथमस्य लक्षणमित्याशङ्का भवत्येव ।
परीक्षापरमेव तद्वाक्यमिति अन्ये । यद् वा विपर्यस्तोऽयं कथंलक्षणमस्येति, न सम्भवत्येव संयोगस्य लक्षणमिति मन्यन्ते ।
कतिविधश्चेति भेदार्थं प्रश्नः । तत्र लक्षणमाह * अप्राप्तयोः प्राप्तिः संयोगः * इति । प्राप्तिः समवायोऽपि भवतीत्यप्राप्तयोरिति पदम् । पर्याय25 शब्दस्य च लक्षणत्व मिष्टमेव । स च प्रत्यक्षेण गृह्यत इति न संयोगस्या
सम्भवेन लक्षणस्याश्रयासिद्धत्वमिति ।
For Private And Personal Use Only