________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैवयंप्रकरणम्
* स च त्रिविधः इति भेदप्रतिपादनं सामान्यलक्ष्णस्यासम्भवित्वपरिहारार्थम् । केन रूपेण त्रैविध्यमित्याह अन्यतरकर्मज उभयकर्मजः संयोगजश्च * संयोग इति । तत्रान्यतरस्मिन् कर्म तस्माज्जातोऽन्यतरकर्मजः । * यथा स्थाणोः श्येनेन * इति । *विभूनाञ्च मूर्तेः- इत्युदाहरणद्वयमवान्तरविशेषविवक्षया। तथाहि, श्येनस्थाणुसंयोगः कर्मणा संयोगेन 5 च जन्यते । विभूनान्तु परमाणुभिः संयोगः कर्मणैवेति । संयोगकर्मणोश्च व्यापाराविशेषेऽपि कर्मणैव व्यपदेशः संग्रहार्थम् । अन्यतरकर्मजत्वमुभयत्राप्यस्तीत्यवबोधः ?नाय ।
नन्वेवं संयोगजः कर्मजश्चेति वाच्यम्, तद्विशेषत्वादन्येषामिति । सत्यम् । तथापि कर्मजस्यैतावानेव भेद इति परिसंख्यार्थमन्यतरादिग्रहणम्, 10 न संयोगस्य कारणत्वप्रतिषेधार्थपरम् । तथा च प्रयत्नापेक्षाच्छ्येनचरणसंयोगाच्चरणक्रियाया उत्पादः, विभागस्योत्पद्यमानता, श्येनावयविन्यस्वकारणात् क्रियाया उत्पद्यमानता, ततः श्येनचरणविभागस्योत्पादः, संयोगस्य विनश्यत्ता, श्येनावयविकर्मणोऽप्युत्पादः, विभागस्योत्पद्यमानता, ततः श्येनचरणसंयोगस्य विनाशः, उत्तरसंयोगस्योत्पद्यमानता, श्येनावयविविभाग- 15 स्योत्पादः, श्येनावयविकर्मणा च श्येनस्थाणुसंयोगो जन्यते, प्रत्यासन्नत्वे सत्युभयोः सामर्थ्यावधारणात् । अतः श्येनस्थाण्वोः समवायिकारणत्वम्, श्येनक्रियायास्तच्चरणस्थाणुसंयोगस्य चासमवायिकारणत्वम् । प्रत्यासत्तिस्तु श्येनचरणसंयोगस्य महत्यपि सम्भवतीत्यन्यतरावरोधे न विशेषहेतुरस्तीति वक्ष्यामः।
20 __ उभयकर्मजोऽप्युभयोः कर्मणी ताभ्यां जातः । *यथा मल्लयोमॆषयोर्वा । अत्राप्यवयवकर्मभ्यां विभागसमकालमवयविनः कर्माभ्युपगमे संयोगैरवयविकर्मभ्याञ्च संयोगो जन्यत इति चिन्त्यम् । यथा ह्यवयवकर्म अवयवान्तरेण संयोगं करोति, एवं तदवयविनापि इतरावयवकर्मापि, इतरावयवकर्मसंयोगवत् तदवयविनापीति, संयोगत्रितयम् । तच्च प्रत्या- 25 सन्नत्वे सति सामर्थ्यावधारणात् कारणमिति । मेषयोः समवायिकारणत्वम् । [अत्रैव द्विपृथक्त्वोत्पादकप्रक्रियापाठो मातृकायामासीत् संयुक्तप्रत्यये हि
For Private And Personal Use Only