SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधर्म्यप्रकरणम् १३१ इदानीमनध्यवसायस्य कारणस्वरूपविषयविभागनिरूपणार्थं न परं विपर्ययः * अनध्यवसायोऽपि प्रत्यक्षानुमानविषये सञ्जायते * इत्यादि प्रकरणम् । अनध्यवसितिरनध्यवसायः, ज्ञानमनिश्चयात्मकम् । तच्च संशयादिभ्योऽर्थान्तरम् , कारणभेदाद्, विषयभेदाच्चेति । * [तत्र प्रत्यक्षविषये तावत् * व्याख्यायते । * प्रसिद्धार्थेष्वप्रसि- 5 द्धार्थेषु * च विषयेषु भवतीत्यतः संशयाद भिद्यते । संशयो हि प्रसिद्धार्थेष्वेव भवतीति । अथ प्रसिद्धार्थेषु कुतः कारणादनध्यवसाय इत्याह * व्यासङ्गाद[न]र्थित्वाद् वा * इति । यथा व्यासङ्गात् इषुकारस्य इषावासक्तमनसो महति गतेऽपि राजनि 'किन्नामायं गतः' इत्यनध्यवसायः । अन]र्थित्वात् स्वानुष्ठाननिरतस्य तपस्विनो महत्यपि राजन्यनध्यवसाय: 'किन्नामायं 10 गतः' इति । न चायं संशयः, तस्योभयोल्लेखित्वात्, सामान्योपलम्भादिभ्यश्चोत्पद्यमानत्वाच्च । इत्यतोऽनध्यवसाय इतरस्माद् भिद्यते यथोक्तकारणजन्यत्वात् । यथोक्तं वा ज्ञानम् अनध्यवसाय इति व्यवहर्त्तव्यम् उक्तकारणेभ्यो निष्पद्यमानत्वात् । यस्तु न भिद्यते न चैवं व्यवह्रियते, न चासावुक्त- 15 कारणेभ्यो निष्पद्यते । यथा संशयादिरिति । तस्य स्वरूपमाह * किमित्यालोचनमात्रम् * किं नामेति ज्ञानं विशेषसंज्ञोल्लेखशून्यमनध्यवसाय इति । अप्रसिद्धार्थेषु * यथा बाहीकस्य पनसादिष्वनध्यवसायो भवति * बाहीको हिठकः [ ? हिरठक: ] तस्य पनसादिषु सङ्केताभावाद् विशेषसंज्ञोल्लेख- 20 शून्यं 'किन्नामायम्' इति ज्ञानमुत्पद्यते। तत्र हि * सत्ताद्रव्यत्वपृथिवीत्ववृक्षत्वरूपादिशाखाद्यपेक्षोऽध्यवसाय: * एव। तथाहि, सन्नयम् इति निश्चयज्ञानम् । तथा द्रव्यं पृथिवी वृक्षो रूपादिमांश्छाखादिमांश्चेति अध्यवसाय एव । तथा पनसत्वमपि निर्विकल्पकबोधे * पनसेष्वनुवृत्तमाम्रादिभ्यो व्यावृत्तं प्रत्यक्षमेव । 25 ___नन्वेवं तर्हि क्व विषयेऽनध्यवसाय इत्याह केवलन्तूपदेशाभावात् * सङ्केताभावाद् विशेषसंज्ञोल्लेखिनी पनसोऽयमिति * प्रतिपत्तिर्न भवति * इति । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy