________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
परिमाणोत्पत्तिप्रकारः
अनित्यं चतुर्विद्यमपि संख्यापरिमाणप्रचययोनि ।
एवं चातुर्विध्यमुक्त्वोत्पत्तिकारणमाह *अनित्यं चतुर्विधमपि संख्यापरिमाणप्रचययोनि* इति। संख्या च परिमाणञ्च प्रचयश्चेति संख्यापरिमाणप्रचयाः, ते योनिः कारणमस्येति । संख्यापरिमाणप्रचयैः समस्त- 5 व्यस्तैर्जन्यत इति वाक्यार्थः । तथा च सूत्रम् "कारणबहुत्वात् कारणमहत्त्वात् प्रचयविशेषाच्च महदिति” ( वै० सू० ७।१।९ )। अनित्यग्रहणम् नित्यव्युदासार्थम् । चतुर्विधमिति न्यूनताव्यवच्छेदः ।
तत्रेश्वरबुद्धिमपेक्ष्योत्पन्ना परमाणुद्वयणुकेषु बहुत्वसंख्या तेरारब्धे व्यणुकादिलक्षणे कार्यद्रव्ये रूपाद्युत्पत्तिसमकालं महत्त्वं दीर्घत्वञ्च 10 करोति।
सूत्रार्थप्रक्रमस्य विवक्षित्वाद् उद्देश [ क्रमा ] तिक्रमेण महत्त्वोत्पत्तौ कारणमाह तत्रेश्वरबुद्धिमपेक्ष्योत्पन्ना परमाणुद्वयणुकेषु बहुत्वसंख्या तैरारब्धे त्र्यणुकादिलक्षणे कार्यद्रव्ये रूपाद्युत्पत्तिसमकालं महत्त्वं दीर्घत्वञ्च करोति * । तथा चेश्वरबुद्धिनित्या सकलार्थविषया चेति एकैकगुणालम्बना- 15 स्त्येव । तामपेक्ष्यकैकगुणैः परमाणुद्वयणुकेषु त्रित्वमारभ्यते । परमाणुद्वयणुकेष्विति द्वयणुकव्यवच्छेदार्थम् । परमाणुभ्यामेव द्वयणुकमारभ्यते, न द्वयणुकाभ्याम्, व्यारम्भप्रसङ्गादित्युक्तम् । अतः परमाणुद्वयणुकारब्धे कार्यद्रव्य इति । तैरारब्धं रूपाद्यपि भवतीति तन्निषेधार्थ द्रव्यग्रहणम् । द्रव्यपदञ्च द्रव्यत्वेऽपि वर्त्तत इत्यभिव्यक्तिविवक्षया तदप्यारब्धमिति कार्यग्रहणम् । व्यणु- 20 कादिलक्षण इति । त्र्यणुकञ्च तदादिलक्षणं कारणकार्यस्वरूपञ्चेति । यद् वा सर्वमहद्दव्याणामादौ लक्ष्यत इत्यादिलक्षणम्, तस्मिन्नुत्पन्ने रूपाद्युत्पत्तिसमकालं द्वयणुकेषु वर्तमानं त्रित्वं महत्त्वं दीर्घत्वञ्च करोतीति ।। ___तथाहि, कार्यवस्तुनोऽसमवायिकारणपूर्वकत्वं दृष्टमिति त्र्यणुकस्य समवायिकारणत्वाद् अन्येनासमवायिकारणेन भवितव्यम् । द्वयणुकेषु च 25 महत्त्वस्याभावान्न कारणगुणपूर्वकत्वम् । अथाणुपरिमाणादेव त्र्यणुके महत्त्वम्, कारणपरिमाणात् कार्यपरिणामस्यातिशयोपलब्धेः । तथा च पटापेक्षया
For Private And Personal Use Only