________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
आमलके, तदभावमपेक्ष्य कुवलयेऽणुव्यवहारः । यत्र हि वास्तवमणुत्वं तत्र परिमाणातिशयस्याभावो द्रष्टव्यः । तस्यान्यत्राप्युपलम्भाद् उपचारः प्रवर्तत एव ।
यद् वा मुख्यासद्भावे किं प्रमाणमित्याह * भाक्तोऽणुव्यवहारः । 5 यथा हि माणवके सिंहव्यवहारो मुख्यापेक्षः, तद्वदयमणुव्यवहारोऽप्युपचरि
तत्वान्मुख्यपूर्व इत्यणुत्वसिद्धिः । तथा च कुवलयादिषु अणुव्यवहारो मुख्यपूर्वको भाक्तव्यवहारत्वात्, माणवके सिंहव्यवहारवत् ।
यथा च महत्त्वाणुत्वयोनित्यानित्यभेदो नैवं दीर्घत्वह्रस्वत्वयोः, आश्रयान्तरानुपपत्तेः । क्व वा तयोर्वृत्तिरित्याशङ्कायामाह [ “दीर्घत्वह्रस्वत्वे 10 च* ] दीर्घत्वञ्च ह्रस्वत्वञ्चेति दीर्घत्वह्रस्वत्वे । ते तु * उत्पाद्यमहदणुत्वै
कार्थसमवेते* उत्पाद्ये च ते महदणुत्वे च उत्पाद्यमहदणुत्वे; ताभ्यां सहैकस्मिन्नर्थे समवेते। तथाहि, त्र्यणुकादावुत्पाद्यं महत्त्वं तत्रैव दीर्घत्वम् । द्वयणुके चाणुत्वं तत्रैव ह्रस्वत्वमिति । परमाणूनां परिमण्डलत्वान्न ह्रस्वत्वम्, आकाशादेापकत्वाच्च न दीर्घत्वम्, तद्विपरीतेषु तद्व्यवहारदर्शनात् ।
अथ द्वयणुकेष्वेव [ कथं ] ह्रस्वत्वमित्युक्तमन्यत्रापि तद्व्यवहारोपलब्धेः ? तन्न, बाधकसद्भावेन अन्यत्रोपचाराभ्युपगमादित्याह *समिदिक्षुवंशादिष्वञ्जसा दीर्धेष्वपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तो ह्रस्वत्वव्यवहारःइति । तथाहि, समिदादिषु दीर्घत्वोत्पत्तौ कारणसद्भावादञ्जसा मुख्यया वृत्त्या
दीर्घत्वम् । दीर्घष्वपि ह्रस्वत्वव्यवहारो दृष्ट इति मुख्यासम्भवात् उपचारः 20 कल्प्यते । तत्र च तत्प्रकर्षभावाभावो निमित्तम् । तस्य वंशादेः प्रकर्षः
समिदाद्यपेक्षया दीर्घत्वातिशयः, तस्य भावो विद्यमानता वंशादौ, तदभावमपेक्ष्य इक्षौ ह्रस्वत्वव्यवहारः । समिधमपेक्ष्य इक्षौ दीर्घत्वातिशयः, तत्र तदभावमपेक्ष्य समिधि ह्रस्वव्यवहारः ।
यद्वा मुख्यह्रस्वत्वस्य सद्भावे किं प्रमाणम् ? उपचरितो ह्रस्व25 व्यवहारः । तथाहि, समिदादिषु ह्रस्वव्यवहारः, मुख्यपूर्वकः, भाक्तव्यवहार
त्वात्, माणवके सिंहव्यवहारवदिति ।
For Private And Personal Use Only