________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
सूक्ष्मास्तन्तवस्तदपेक्षया तदंशव इति दृष्टम् । एवं द्वयणुकापेक्षया अतिशयपरिमाणसम्बन्धि त्र्यणुकं भविष्यतीति ।
तदसत् । यच्छब्दवाच्यं कारणपरिमाणं तच्छब्दवाच्यं कार्येऽपीति त्र्यणुके द्वयणुकपरिमाणमेव स्यात् । यथा महच्छब्दवाच्यात् तन्तुगणाद् उत्पद्यमानः पटस्तच्छब्दवाच्य इति । एवमणुपरिमाणादणुपरिमाणमेव स्यात् । परमाणुपरिमाणाच्च द्वयणुकेऽपि परिमाणमिति कल्पनायामणुत्वस्यासम्भवे कथं तस्मान्महत्त्वमिति । न चाणुत्वस्यासम्भवे परमाणुरिति युक्तम् । तथा चाणोरतिशयेनाणुः परमाणुरिति व्यपदिश्यते । अन्यथा हि
विशेषणमनर्थकमेव स्याद् व्यवच्छेद्याभावात् । महत्त्वञ्चापेक्ष्याणुव्यवहारः, 10 न च परमाणुरिति । न च महत्त्वम् अणुपरिमाणस्य कारणत्वाभ्युपगमे ।
तस्मादण्वभावे परमाणुव्यवहारोच्छेदप्रसङ्गात् न परमाणुपरिमाणं कारणम् ।
इतश्च परमाणुपरिमाणस्याणुत्वोत्पत्तावणुत्वस्य महत्त्वात्पत्तावसमवायिकारणत्वमयुक्तम् । अत्यन्तसमानजातीयस्यासमवायिकारणत्वोपलब्धः । तथा चात्यन्तं समानजातीयमसमवायिकारणं यथा शुक्लतमाद् रूपाच्छुक्लतममेव रूपम् । अत्यन्तविजातीयञ्च यथा संयोगाच्छब्द इति । न चैवमणुपरिमाणं महत्त्वोत्पत्तौ, परमाणुपरिमाणश्चाणुत्वोत्पत्ताविति । तस्यापि परिमाणत्वान्नात्यन्तं विजातीयत्वम् । परमाणुत्वञ्चाणुत्वस्यैव विशेषोऽणुत्वञ्च महत्त्वाज्जात्यन्तरमेवेति नात्यन्तसमानजातीयत्वम् ।
न चात्र प्रचयः सम्भवति, रूपादीनां स्वकार्ये सामर्थ्यावधारणात् । अतः संख्येवासमवायिकारणमिति कल्प्यते। प्रत्यासत्तिमंहती। तथा च महत्त्वं दीर्घत्वञ्च त्र्यणुके वर्तते त्र्यणकश्च द्वयणुकेषु, त्रित्वमपि तेष्वेवेति कार्यकारणैकार्थसमवायलक्षणा प्रत्यासत्तिरिति ।
नन्वेवमीश्वरबुद्धेनित्यत्वाद् द्वयणुकानाञ्च कालान्तरमवस्थानाद् 52 अवस्थायित्वमेव, संख्याया नित्यद्रव्यसमवेतायाश्च नित्यत्वमिति । नैष दोषः ।
संख्यायाः कार्यत्वादवश्यं विनाशित्वमिति । निर्हेतुकविनाशप्रतिषेधेनास्या विनाशहेतोरभावात् स्थितिहेत्वदृष्टाभावाद् विनाशः कल्प्यते ।
For Private And Personal Use Only