SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैवयंप्रकरणम् २२३ संयुक्तानामाप्यानां परमाणूनां परस्परं संयोगो द्रव्यारम्भकः सङ्घाताख्यः, तेन परमाणुद्रवत्वस्थ प्रतिबन्धात् कार्ये हिमकरकादौ द्रवत्वानुत्पत्तिः । नैमित्तिकञ्च पृथिवीतेजसोरग्निसंयोगजम् । कथम् ? सपिर्जतुमच्छिष्टादीनां कारणेषु परमाणध्वग्निसंयोगाद् वेगापेक्षात् कर्मोत्पत्तौ तज्जेभ्यो विभागेभ्यो द्रव्यारम्भकसंयोगविनाशात् कार्यद्रव्यनिवृत्तावग्नि- 5 संयोगाद् औषण्यापेक्षात् स्वतन्त्रेषु परमाणुषु द्रवत्वमुत्पद्यते । ततस्तेषु भोगिनामदृष्टापेक्षाद् आत्माणुसंयोगात् कर्मोत्पत्तौ तज्जेभ्यः संयोगेभ्यो द्वयणुकादिप्रक्रमेण कार्यद्रव्यमुत्पद्यते, तस्मिश्च रूपाद्युत्पत्तिसमकालं कारणगुणप्रक्रमेण द्रवत्वमुत्पद्यत इति । द्रवत्वस्य लक्षणपरीक्षार्थमाह द्रवत्वं स्यन्दनकर्मकारणम् इति। स्यन्दन- 10 कर्म वक्ष्यमाणम् । तत्कारणं द्रवत्वमित्युक्ते वेगेन व्यभिचारः, तदर्थं विद्रव्यवृत्तीति । तथापि त्रिद्रव्यवृत्तित्वं वेगस्यापि सम्भवतीति नियमेनेति पदमूह्यम् । रूपन्तु नियमेन विद्रव्यवृत्ति, न तु स्यन्दनकर्मकारणम् । अतो द्रव्यत्वम्, इतरस्मा द्भिद्यते, नियमेन विद्रव्यवृत्तित्वे सति स्यन्दनकर्मकारणत्वादिति । तत्त द्विविधमिति विभागः । केन रूपेण ? सांसिद्धिकं नैमित्तिक- 15 ञ्चेति । तयोः परस्परं वैलक्षण्यनिरूपणार्थमाह * सांसिद्धिकमपां विशेषगुणः, नैमित्तिकं पृथिवीतेजसोः सामान्यगुणः इति परस्परभेदः । * सांसिद्धिकस्य गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः इति । यथा गुरुत्वं नित्येष्वनिष्पद्यमानत्वान्नित्यम् अनित्येषु निष्पत्तेरनित्यं कारणगुणपूर्वकमाश्रयविनाशाच्च विनश्यति, एवं सांसिद्धिकद्रवत्वमपीत्यतिदेशार्थः । ननु चायुक्तमेतद् अपां सांसिद्धिकद्रव्यत्वमिति, हिमकरकादावनुपलम्भात् ? * तदाह सङ्घातदर्शनात् सांसिद्धिकत्वमयुक्तमिति चेत्, * नैतदेवम्। अन्यत्र सलिले सांसिद्धिकद्रवत्वस्योपलब्धेः, आप्यपरमाणुषु तत्सद्भावसिद्धौ हिमकरकादौ तस्यानुत्पादात् प्रतिबन्धकमस्तीति निश्चीयते । तच्च अन्यस्यानुपलम्भाद् दिव्यतेजःसंयोग एवेत्याह * दिव्यतेजःसंयुक्तानामाप्यानां परमाणूनां 25 परस्परं संयोगो द्रव्यारम्भकः * । स च * सङ्घाताख्यः, तेन परमाणुद्रवत्वस्य प्रतिबन्धात् कार्ये हिमकरकादौ द्रवत्वानुत्पत्तिः * इति । तेजःसद्भावस्तु For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy