________________
Shri Mahavir Jain Aradhana Kendra
5
२२४
www.kobatirth.org
व्योमवत्यां
*
स्फोटादिकार्यानुमेयः । तथा च हिमकरकासम्बन्धादुपलभ्यते स्फोटादिलक्षणं कार्यं शरीरे वृक्षादौ च दाह इति । विलयनञ्चास्य दिव्यतेजः सम्बन्धात् । अवयवे क्रिया, ततो विभागस्तस्मात् संयोगनिवृत्तौ द्रव्यविनाशे सति परमाणवः कार्यमारभन्ते । तत्र च दिव्यतेजः संयोगस्य प्रतिबन्धकस्य निवृत्तेः परमाणुद्रवत्वं कार्ये द्रवत्वमारभते ।
न चेदं नैमित्तिकम्, सर्पिरादाविव पुनः संग्रहानुपलब्धेः । यथाहि नैमित्तिकद्रवत्वं सर्पिरादाविति द्रुतस्य संग्रह:, तथेहाऽपि स्यात् । न चैतदस्तीति ।
* नैमित्तिकञ्च पृथिवीतेजसोरग्निसंयोगजम् । कथमित्यव्युत्पन्नप्रश्नः । 10 तत्राह सर्पिरादीनां कारणेष्वित्यादिपदेन सूत्रोक्तानां संग्रहः । तथाहि सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् । त्रपुसीसलोहरजतसुवर्णानां तैजसानामग्निसंयोगाद्द्रवत्वमद्भिः सामान्यमिति (वै० सू० २१११५४-५५ ) । अतः सर्पिरादिकारणेषु च परमाणुष्वग्निसंयोगापेक्षाद् वेगापेक्षात् कर्मोत्पत्तौ सत्यन्ततो विभागा जायन्ते । तेभ्यो विभागेभ्यो 15 द्रव्यारम्भकसंयोगविनाश:, ततः कार्यद्रव्यनिवृत्तिस्तस्याञ्च सत्यामग्निसंयोगाद् औष्ण्यापेक्षात् स्वतन्त्रेषु परमाणुषु द्रवत्वमुत्पद्यते । परमाणवः समवायिकारणम्, अग्निसंयोगोऽसमवायिकारणमुष्णस्पर्शो निमित्तकारणमिति । ततोऽनन्तरमुत्पन्नद्रवत्वेषु भोगिनामदृष्टापेक्षादात्मानुसंयोगात् क कर्मोत्पद्यत इति । परमाणुः समवायिकारणम्, आत्माणुसंयोगोऽसमवायि20 कारणम्, भोगिनामदृष्टो निमित्तकारणमिति । ततो विभागेभ्यः प्राक्तनसंयोगविनाशे सति तेभ्यः कर्मभ्यः परमाण्वन्तरेण संयोगा जायन्ते । तेभ्यः संयोगेभ्यो द्वणुकाण्युत्पद्यन्ते । तदादिक्रमेण त्र्यणुकादिकार्यमुत्पद्यते । तस्मिंश्च द्व्यणुकादौ रूपाद्युत्पत्तिसमकालं कारणगुणपूर्वक्रमेण द्रवत्वमुत्पद्यत इति * पाकजोत्पत्तिन्यायोऽत्र द्रष्टव्यः । एतावांस्तुविशेषः, तत्रावश्यं रूपादि25 निवृत्तिर्न चैवं द्रवत्वस्येति ।
स्नेह वैधर्म्यं
*
Acharya Shri Kailassagarsuri Gyanmandir
स्नेहोsपां विशेषगुणः । संग्रहमृजादिहेतुः । नित्यानित्यत्वनिष्पत्तयः ।
For Private And Personal Use Only
अस्यापि गुरुत्वव