SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 गुणधर्म्यप्रकरणम् २२५ स्नेहस्य लक्षणपरीक्षार्थं * स्नेहोऽपां विशेषगुणः सङ्ग्रहमजादिहेतुः * इति । अपां विशेषगुणो रूपादिरपीति सङ्ग्रहमृजादिहेतुरिति पदम् । सङ्ग्रहः पिण्डीकरणम् । मृजा तु विशदत्वम् । तद्धेतुत्वादितरस्माद् भिद्यते । ननु स्नेहस्याभिनवपल्लवादावुपलम्भाद् उदकविशेषगुणत्वमसिद्धम् ? न, संयुक्तसमवायेनोपलम्भात् । संयुक्तं हि पल्लवादिना उदकं तत्समवेत- 5 स्नेहो गृह्यते, तदपाये तस्यानुपलब्धेः, तथा स्नानोत्तरकालं केशादौ स्निग्धप्रत्ययदर्शनात् । यथा च संयोग्याश्रयवैगुण्याभावे सर्वस्मिन्नुदके स्निग्धज्ञानं नैवं सर्वस्यां पृथिव्यामिति । अस्यापि गुरुत्ववन्नित्यानित्यत्वनिष्पत्तय इति । नित्येषु नित्योऽनित्येषु कारणगुणपूर्वः, आश्रयविनाशाद् विनश्यतीति । संस्कारधर्म्यम् संस्कारस्त्रिविधो लेगो भावना स्थितिस्थापक। तत्र बेगो मूतिमत्सु पञ्चसु द्रव्येषु निमितविशेषापेक्षात् कर्मणो जायते, निय दिक्रियाप्रबन्धहेतुः स्पर्शवद्रव्यसंयोगविशेषविरोधी क्वचित् कारणगुणपूर्वकोणोत्पश्चाते। संस्कारनिरूपणार्थमाह * संस्कारविविधः * । केन रूपेण? वेगो भावना 15 स्थितिस्थापकत्वेनेति। विभाग एवासाधारणत्वाल्लक्षणमिति, तल्लक्षणवैचित्र्यज्ञापनार्थमेतत् । तत्र वेगस्य समानजातीयात् भेदमाश्रयञ्च निरूपयन्नाह * मूर्तिमत्सु * इत्यादि । मूर्तिमत्सु द्रव्येषु । न ज्ञायते कियत्सु, तदर्य * पञ्चसु * । तथापि न ज्ञायते केषु, तदर्थं * मूर्तिमत्सु * इत्याश्रयनिरूपणम् । यद् वा संस्कारत्वे सति पञ्चसु मूर्तिमत्स्वेव वर्तमानत्वाद् वेग इति लक्षणम् । 20 कारणमाहानिमित्तविशेषापेक्षात् कर्मणो जायते इति । संयोगविभागयोः कर्मजत्वमिति निमित्तविशेषापेक्षादिति विशेषणम् । निमित्तविशेषो नोदनाभिधातसंयुक्तसंयोगा:, तदपेक्षादिति । कर्म असमवायिकारणम्, स्वकारणविशेषो नोदनादिनिमित्तकारणम्, वेगाधारस्तु समवायिकारणमित्यसाधारणत्वाल्लक्षणं चेदम् । कार्यमाह नियतायां दिशि क्रियाप्रबन्धस्य 25 क्रियासन्तानस्य हेतुरिति । ननु चायुक्तमेतत्, अनियतदिगदेशस्य भ्रमणाख्यस्यापि कर्मण: कारण For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy