SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5 www.kobatirth.org व्योमवत्यां 15 २२६ त्वात्, सत्यमेतत्, तथाप्यदोषः, नियतदिक्क्रियाप्रबन्धस्यैव हेतुरित्यवधारणानभ्युपगमात् । सोऽपि नियतायामेव दिशि क्रियाप्रबन्ध इति चान्ये । अनियतदिक्क्रियाप्रबन्धहेतुरित्यवधारणस्यात्र पूर्वरूपतां मन्यमाना व्याख्यान्तरं कुर्वते । तस्य विनाशकारणमाह स्पर्शवद्द्रव्यसंयोगविशेषविरोधी इति । स्पर्शवद्द्रव्यसंयोगमात्र विरोधित्वे वायुसंयोगेन विरोधादिषोर्गमनं न स्यात्, तद्धेतोर्वेगस्य विनाशादिति विशेषग्रहणम्, कठिनावयवसंयोगेनादावपि तद्विनाशोपलब्धेः । * Acharya Shri Kailassagarsuri Gyanmandir नन्वेवमप्याकाशे प्रक्षिप्तस्येषोर्निबिडावयवसंयोगस्य वेगविनाशकस्याभावादपातः स्यात्, न, अनेककार्यकरणे स्पर्शवद्रव्यसंयोगमात्रेणापि विना10 शस्यान्वयव्यतिरेकाभ्यामुपलम्भात् । तथा च क्षिप्तस्येषोर्वेगविनाशोपलब्धेरवश्यं कारणमभिधेयम्, निर्हेतुकविनाशप्रतिषेधात् । अतो वायुसंयोगेनाप्यनेककार्यकरणे सति विरुध्यते, अदृष्टप्रक्षयाद् वेति । * क्वचित् कारणगुणपूर्वप्रक्रमेणोत्पद्यते * यथा पर्वतस्रोतसामधः पततां संयोगे सत्येकस्मिन्नुदके समुत्पन्ने रूपादिवत् कारणवेगादु वेगोऽपीति । * * भावनासञ्ज्ञकस्त्यात्मगुणो दृष्टश्रुतानुभूतेष्वर्थेषु स्मृतिप्रत्यभिज्ञानहेतुर्भवति, ज्ञानमददुःखादिविरोधी । पट्वभ्यासादरप्रत्ययजः पटुप्रत्ययापेक्षादात्ममनसोः संयोगाद् आश्चर्येऽर्थे पटुः संस्कारातिशयो जायते । यथा दाक्षिणात्यस्योष्ट्रदर्शनादिति । विद्याशिल्पव्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वपूर्वसंस्कारमपेक्षमाणादुत्तरोत्तरस्मात् 20 प्रत्ययादात्ममनसोः संयोगात् संस्कारातिशयो जायते । प्रयत्नेन मनश्चक्षुषि स्थापयित्वा अपूर्वमर्थं दिदृक्षमाणस्य विद्युत्सम्पातदर्शनवदादरप्रत्ययः, तमपेक्षमाणादात्ममनसोः संयोगात् संस्कारातिशयो जायते । यथा देवहदे सौवर्णरजतपद्मदर्शनादिति । For Private And Personal Use Only भावनासंज्ञकस्त्वात्मगुणत्वादितरस्माद् भिद्यते । न च बुद्ध्यादिभिर्व्य25 भिचारः, संस्कारस्य सतोऽवान्तरविशेषनिरूपणात् । स्मृतिप्रत्यभिज्ञानहेतुः इति कार्यनिरूपणम्, सद्भावे प्रमाणञ्चेति । 'स्मृतिर्वासनाख्यात्' भवति, *
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy