SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् २२७ तथोक्तमात्माधिकारे । केषु स्मृतिप्रत्यभिज्ञानहेतुरित्याह * दृष्ट श्रुतानुभूतेषु * इति, निर्णीतार्थेष्विति भावः । नाशकारणमाह * ज्ञानमददःखादिविरोधी * इति । ज्ञानं प्रतिपक्षज्ञानं विवक्षितम्, तेन विरुध्यते, यथा आत्मादिज्ञानजनितः संस्कारो नैरात्म्याद्यभ्यासेनेति, तस्मिन् सति तत्रास्मरणात् । स्वमदेन विरोधः, बालावस्थानुभवजनितसंस्कारस्य पुनर्युवावस्थायां विषयाभिभूतस्य तत्रास्मरणात् । दुःखेन, यथा शास्त्रानुभवजनितसंस्कारस्य तीव्रेण दारादिदुःखेनेति, तेन सता तत्रास्मरणात् । आदिपदेन तु क्रोधादेरपि संस्कारनिवर्तकत्वमुक्तम् । __तस्योत्पत्तिकारणमाह पटवभ्यासादरप्रत्ययेभ्यो जातस्तत्प्रत्ययज इति । पटुप्रत्ययापेक्षादात्ममनसोः संयोगादसमवायिकारणादात्मन्याश्चर्येऽर्थे 10 पटुः संस्कारो जायते, * यथा दाक्षिणात्यस्योष्ट्रदर्शनात् * । स चातिशयेन स्मृतिहेतुर्भवतीति । (अभ्यासाद्) * विद्याशिल्पव्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वपूर्वसंस्कारमपेक्षमाणादुत्तरोत्तरस्मात् प्रत्ययादात्ममनसोः संयोगात् संस्कारातिशयो जायते । पूर्वपूर्वसंस्कारापेक्षो हि उत्तरोत्तरप्रत्ययोऽभ्यासः, तमपेक्षमाणादात्ममनसोः संयोगादसमवायिकारणा- 15 दात्मनि संस्कारातिशयो जायते । तत्र विद्यायाम् उपाध्यायोच्चरितपदश्रवणे सति संस्कारः । पुनविवक्षादिक्रमेण स्वयमुच्चारणे सति तु ज्ञानं पूर्वसंस्कारापेक्षं संस्कारान्तरमारभते । पुनस्तदुच्चारणे सति तज्ज्ञानं पूर्वसंस्कारापेक्षं संस्कारान्तरमारभत इत्येवं त्रिचतुरादिपरिवर्तने सत्यन्त्यपदानुभवात् पूर्वसंस्कारापेक्षात् संस्कारातिशयो जायते । एतच्चावश्यमभ्युपेयम्, अन्यथा- 20 भ्यासवेयर्थ्यं स्यात् । न चातिप्रसङ्गः, अदृष्टस्य व्यवस्थाहेतुत्वात् । न च तस्यास्ति सर्वत्र सद्भावः, कार्यस्य स्मरणस्य सर्वत्रानुपलब्धेः । यत्र हि स्मरणमस्ति तत्रैव पूर्वसंस्कारापेक्षं ज्ञानं संस्कारमारभत इति । आन्तरे चाभ्यासे पूर्वपूर्वसंस्कारापेक्षं नियतार्थस्मरणमेव संस्कारमारभत इति चिन्त्यम् । एवं शिल्पेऽप्युपाध्यायलिखितचित्रदर्शनात् संस्कारः, पुनः स्वयं 25 सम्पाद्योपलभते; तदनुभवः पूर्वसंस्कारापेक्षः संस्कारान्तरमारभते, पुनः स्वयं लिखित्वोपलभते, तदनुभवः पूर्वसंस्कारापेक्षः संस्कारान्तरमारभते, इत्येवं For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy