SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ व्योमबत्या द्वियादिपरिवर्त्तनेन संस्कारातिशयः । व्यायामेऽपि उपाध्यायेन धनुर्वेदपरिपठितन्यायेन प्रयुक्तेषूपलम्भादुपजाते संस्कारे पुनस्तदनुसारितया स्वयं प्रयुक्त तदनुभवेन पूर्वसंस्कारापेक्षेण संस्कारान्तरमारभ्यते, पुनस्तथैव प्रयोगे सति तदनुभवेन पूर्वसंस्कारापेक्षेणान्यः संस्कार इत्येवमन्त्यानुभवात् संस्कारातिशय इति । आदरप्रत्ययजसंस्कारमाह * प्रयत्नेन मनः चक्षुषि स्थापयित्वा अपूर्वमर्थ दिदृक्षमाणस्य * इति, द्रष्टुमिच्छतो विद्युत्सम्पातदर्शनेन तुल्यं वर्तते, इति तदर्शनवदादरप्रत्ययः । तमपेक्षमाणादात्ममनसोः संयोगादसमवायिकारणा दात्मनि संस्कारातिशयो जायते । * यथा देवह्रदे सौवर्णराजतपदादर्शना * -- 10 दिति * । तत्र हि सौवर्णराजतपायोरुत्थानमागमाल्लोकप्रवादतो वा समुपलभ्य पुनविशिष्टयात्रासमये प्रयत्नेन संस्कारातिशयो भवतीति ।। स्थितिस्थापकस्तु स्पर्शवद्रव्येषु वर्तमानो घनावयवसनिवेशলিহি জ লাং হলঃ হিন্দু ল [এফফথ स्थापयति । स्थावरजङ्गमविकारेषु धनुःशाखादन्तशृङ्गास्थिसूत्रवस्त्रादिषु 15 भुग्नसंर्वाततेषु स्थितिस्थापकस्य कार्य संलक्ष्यते। नित्यानित्यत्वनिष्पत्तयोऽस्यापि गुरुत्ववत् द्रष्टच्या ! स्थितिस्थापकस्तु संस्कारत्वे सति स्पर्शवत्स्वेव द्रव्येषु वर्तमानत्वादितरस्माद भिद्यते । किं भूतेषु ? * घनावयवसन्निवेशविशिष्टेषु * इति। घनाश्च ते अवयवाश्च, तेषां सन्निवेशो रचनाविशेषः । घन इति सन्निवेशस्य वा 20 विशेषणम्, तद्विशिष्टेषु । * कालान्तरावस्थायिषु स्वाश्रयमन्यथाकृतं यथावत् स्थापयति * इत्यतः स्थितिस्थापकः । सद्भावे प्रमाणमाह स्थावराश्च जङ्गमाश्चेति तथोक्तास्तेषां विकारेषु धनुःशाखादन्तशृङ्गास्थिषु, सूत्रवस्त्रादिषु च भुग्नेषु संवर्तितेषु पिण्डी कृतेषु तस्य कार्य संलक्ष्यते । तथाहि धनुषि शाखादौ च आकर्षणकर्मण्युप25 जाते नोदनादिभ्यस्तन्निवृत्तावपि कर्मोपलम्भादवश्यमसमवायिकारणं वाच्यम्, वस्तुनस्तदन्तरेणानुत्पत्तेः । न च नोदनादेरन्यतमः सम्भाव्यत इत्यन्येनासमवायिकारणेन भवितव्यम्, क्रियाविभागयोश्च क्रियोत्पत्तावकारणत्वोपलम्भात् । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy