________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
इति । अनुमेयः पक्षस्तत्र सद्भावः, तत्तुल्यः सपक्षस्तत्र चेति । अथशब्दः 'च' शब्दस्थाने। असति विपक्षे नास्तिता व्यावृत्तिर्यस्य तल्लिङ्गमिति । विपक्षस्तु ततोऽन्यः, तद्विरुद्धस्तदभावो वा, त्रिविधोऽप्यसतीत्यनेनावरुद्धः, साध्याभावरूपतायाः सर्वत्र समानत्वात् । तत्रानुमेये एव सद्भाव इत्यवधारणेऽसाधारणस्य गमकत्वप्रसङ्गः । न चास्माद् । भागासिद्धिव्युदासः, पदान्तरवैयर्थ्यञ्च । अथानुमेये सद्भाव एवेत्ययोगव्यवच्छेदः ? तथापि सद्भावस्यानवधारणाल्लिङ्गस्यान्यत्रापि वृत्तिलभ्यत इति व्यर्थं 'तत्तुल्ये सद्भावः' इति पदम् । अथावधारणार्थं क्रियते ? तत्रापि तत्तुल्य एव सद्भाव इत्यवधारणे पूर्वोत्तरव्याघातः । अथ पक्षे वृत्तौ सिद्धायां विपक्षादेर्व्यवच्छेदार्थ[स]मुच्चीयमानावधारणमेतत् ? 10 तथापि 'असति नास्तिता' इति न कार्यम्, अवधारणेन गतार्थत्वात् । न च तुल्ये सद्भाव एवेत्यवधारणं युक्तम्, सपक्षकदेशवृत्तेरपि गमकत्वाभ्युपगमात् । अथ असत्येव नास्तीत्यवधारणार्थं पदम् ? तथापि विपक्षैकदेशवृत्तेर्गमकत्वप्रसङ्गः, तस्य हि विपक्ष एव नास्तितेति । असति नास्त्येवेत्यवधारणम् ? तथापि नास्तिताया विपक्षव्यतिरेकेणान्यत्रापि सद्भावो लभ्यत 15 इत्यसाधारणादेर्गमकत्वप्रसङ्गः । तस्मात् सर्वं वाक्यं सावधारणमिति पक्षे दूषणमेतदनिवार्यम् ।
विस्तरेण चावधारणपक्षोऽस्मद्गुरुभिनिरस्त इति नेह प्रतन्यते ।
अथास्तु अवधारणं विनैव सहचरितपदात् भागासिद्धिव्युदासस्तथाप्येतद्रूपं विरुद्धासाधारणयोरस्तीति तद्व्यवच्छेदार्थं 'प्रसिद्धञ्च तदन्विते' इति । 29 तेनानुमेयसमानधर्मेणान्वितो युक्तस्तस्मिन् तदन्विते प्रसिद्धम् । न चैवं विरुद्धासाधारणाविति । तथाप्यनैकान्तिकस्य पक्षधर्मत्वं सपक्षे सत्त्वञ्चास्तीति 'तदभावे च नास्त्येव' इति पदम् । तस्य साध्यसमानधर्मस्याभावो यस्मिन् धर्मिणि तत्रात्यन्तं नास्त्येवेति । न चैवमनैकान्तिकम् ।
__ नन्वेवमपि प्रकरणसमकालात्ययापदिष्टयोस्त्रैलक्षण्योपपत्तेर्गमकत्वप्रसङ्गः। 25 तथा च अनुष्णस्तजोऽवयवी कृतकत्वात् घटवदिति सत्यपि त्रैलक्षण्ये प्रत्यक्षे
For Private And Personal Use Only