________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पाकजोत्पत्तिप्रकरणम्
कारणेष्वपि पूर्वगुणविलक्षणस्य गुणान्तरस्योत्पत्तिर्वाच्या । अन्यथा हि तत्कार्येष्वपि न स्यात् । ___सा चोत्पत्तिः पूर्वरूपादीनामवस्थाने न घटते, रूपवति रूपान्तरारम्भप्रतिषेधादिति पूर्वरूपादिनिवृत्तिर्वाच्या । सा चाश्रयविनाशादेवेति सकलस्यापि कार्यद्रव्यस्यापि विनाशः ।
न च परमाणुष्वपि पूर्वरूपादीनामवस्थाने रक्ताद्य त्पत्ति: स्यात् । तदभावात् ढ्यणुकस्यापि कारणगुणपूर्वक्रमेण श्यामादिकमेवोत्पद्यत इति विलक्षणरूपाद्यसम्भव एव । दृष्टश्च कार्ये गुणान्तरप्रादुर्भावस्तेन परमाणुषु रूपादिनिवृत्तौ रक्ताद्युत्पत्तिरिति । न च तत्राश्रयस्य विनाशः सम्भवतीत्यग्निसंयोगस्यैव निवर्तकत्वम्, कारणान्तरस्यासम्भवात् तस्यैवोत्पादकत्वमिति । 10
यदपीदं 'सच्छिद्रद्रव्यम्' इत्युक्तं तत्र यदि कपालरन्ध्रापेक्षया ? तस्यान्तर्देशे पाको न स्यात् । अथ तदवयवरन्नापेक्षया ? तस्यान्तर्देशे पाकाभावः । तदेवमुत्तरोत्तरावयवेष्वपि वाच्यं तावद् यावद् व्यणुकम् ।
अथ तस्यान्तर्देशाभावात् पाको भविष्यतीति ? न । तस्यापि वेगवदग्निसम्बन्धेन अवश्यं विनाशोपपत्तेः । श्यामादिविनाशश्च विना रक्ताद्युत्पत्तिन 15 स्यात् । तद्विनाशश्वाश्रयविनाशादेवेत्युक्तपूर्वम् । स च संयोगविनाशात्, सोऽपि विभागात्, विभागश्च क्रियात इति गुणान्तरप्रादुर्भाव एव क्रियादिक्रमास्तित्वे प्रभाणमिति । ___अत्र तु प्रयोगः पार्थिवपरमाणुरूपादयः, संयोगजाः, विभागजविभागशब्दजशब्दान्यत्वानित्यत्वे सति नित्यस्य विशेषगुणत्वात्, सुखादिवत् । 20 विभागजविभागशब्दजशब्देन व्यभिचारपरिहारार्थ तदन्यत्वे सतीति । सलिलादिपरमाणुरूपादिव्यवच्छेदार्थञ्च अनित्यपदम्। सामान्यगुणव्यवच्छेदार्थं विशेषगुणग्रहणम् । अनित्यव्यवच्छेदश्च नित्यपदेनेति ।
अन्ये तु घटादिगता रूपादयः, पारम्पर्येणाग्निसंयोगजाः, साक्षाद् घटमानत्वे सति अग्निसंयोगतद्भावभावित्वेनोत्पद्यमानत्वात्, श्रूयमाणाग्नि- 25 शब्दवत् (?) इत्यनुमानं ब्रुवते । न चासिद्धं विशेषणमुक्तन्यायात् ।
यच्चेदं अग्निसंयोगस्य नानात्वे प्रमाणाभाव इति । एतदसत् । तस्यैव
For Private And Personal Use Only