SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् ४१ नामग्रहणेऽपेक्षाकारणाभावात् कथं शतसंख्योत्पत्तिरिति । न चेन्द्रियेणैकत्वसामान्यस्य एकस्मिन् द्रव्ये संयुक्तसमवेतसमवायलक्षणस्य सम्बन्धस्योत्पत्तेस्तस्यैकताया द्रव्यान्तरगुणेष्वपि सद्भावात् तदाकृष्टानामेकैकगुणानां युगपद्ग्रहणाच्छतसंख्योत्पत्तिरिति वाच्यम् । सर्वत्र तथाभावेन शतसंख्याधुत्पत्तिप्रसङ्गात् । तथाहि, इन्द्रियस्यैकत्वसामान्येन संयुक्तसमवेतसमवायलक्षणस्य 5 सम्बन्धस्याविशेषात् तदुपग्रहादेकैकगुणानां ग्रहणाभ्युपगमे सर्वस्मिन् द्रव्ये शतसंख्याधुत्पत्तिः स्यात् । न चैतत् । तस्मादपेक्षाकारणाभावादनुत्पत्तिरिति । न चापेक्षाबुद्धि विनैवोत्पत्तिः, गणनावैयर्थ्यप्रसङ्गादित्युक्तन्यायात् । तदेतत् सर्वमसत्, संख्याव्यवहारस्य वास्तवत्वात् । शतसंख्यादिसद्भावसिद्धौ तस्याः कृतकत्वाद् अवश्यमुत्पत्तिकारणं वाच्यमिति अन्यस्यासम्भवाद् 10 विलक्षणैवापेक्षाबुद्धिः कल्प्यत इति । (१) तथा चैकस्मिन् एकगुणे ज्ञानोत्पत्तौ सत्यां संस्कारस्योत्पादे द्वितीयकगुणज्ञानस्योत्पद्यमानता, पूर्वज्ञानस्य विनश्यत्तेत्येकः काल: । (२) ततो द्वितीयकगुणज्ञानस्योत्पादः, पूर्वगुणस्मरणस्योत्पद्यमानता, प्राक्तनसंस्कारसहकारिणा च ज्ञानेन संस्कारस्योत्पद्यमानता, प्राक्तनज्ञानस्य 15 विनाश इत्येकः कालः । (३) ततः स्मरणस्योत्पादः, संस्कारस्योत्पादः, द्वितीयगुणज्ञानस्य विनश्यत्ता, स्मरणानुभवौ चापेक्षाबुद्धिः, ततो द्वित्वस्योत्पद्यमानतेत्येकः कालः । (४) ततो द्वित्वस्योत्पादात् तज्ज्ञानस्योत्पद्यमानता, द्वितीयैकगुणज्ञानस्यापि विनाश इत्येकः कालः । (५) ततो द्वित्वगुणज्ञानस्योत्पादः, द्रव्यज्ञानस्योत्पद्यमानता, स्मरणस्य विनश्यत्तेत्येकः काल: । (६) ततो द्रव्यज्ञानस्योत्पादः, गुणज्ञानस्य बिनश्यत्ता, स्मरणस्य विनाशः, तद्विनाशाद् द्वित्वस्य विनश्यत्ता, तृतीयैकगुणज्ञानस्योत्पद्यमानतेत्येकः कालः । (७) ततस्तृतीयैकगुणज्ञानस्योत्पादः, द्रव्यज्ञानस्य विनश्यत्ता, द्वित्व- 25 गुणज्ञानस्य विनाशः, पूर्वेकगुणद्वितये स्मरणस्योत्पद्यमानता, पूर्वसंस्कार 20 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy