SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवत्यां विभागं द्रव्यारम्भकसंयोगविरोधिनम् आरभते * तदैवाण्वन्तरेऽपि * अनारम्भके कर्म उत्पद्यते । ततोऽनन्तरं * यस्मिन्नेव काले विभागात् * द्रव्यारम्भकसंयोगस्य विनाशस्तदैवानारम्भकाणुकर्मणा * द्वयणुकाण्वोविभागः क्रियते, ततो यस्मिन्नेव काले विभागात् * द्वयणुकस्याणुना * संयोगस्य विनाशस्तस्मिन्नेव 5 काले * संयोगस्य द्रव्यारम्भकस्य विनाशात् * द्वयणकस्य विनाश: * । तस्मिन् यणके विनष्टे * तदाश्रितस्य व्यणुकाणु] विभागस्य विनाशः * ततः कारणविभागाभावाद् उत्तरविभागानुत्पत्तौ तत्संयोगस्याव्यावृत्तेन कर्म उत्तरसंयोगं करोतीति, विरोधिगुणस्यासम्भवात् परमाणुसमवेतस्य कर्मणो नित्यत्वं स्यादिति । प्राक्तनचोद्यस्य प्रतिसमाधानमाह * तन्त्वंश्वन्तरविभागाद विभाग 10 इत्यदोषः । ननु तन्त्वंशुविभागस्तन्तुक्रियाकार्यो न भवत्येव, अंशोद्वितन्तुकोत्पत्तावाकाशादिवदकारणत्वात् । नाप्यंशुक्रियाकार्यः, तन्तूत्पत्तौ तन्त्वन्तरस्याकाशवदेवाकारणत्वात् । कारणे चोत्पन्नं कर्म कारणान्तरविभागसमकाल कारणेन विभागं नारभते, विशिष्ट विभागानुत्पत्तिप्रसङ्गादित्युक्तम् । न च 15 कारणं विना कार्य भवतीति तन्त्वं शुविभागासम्भव एव । नैतदेवम् । अंशु क्रियाजनिताद् विभागात् तस्योत्पत्त्याभ्युपगमात् । तथाहि, अंशुक्रियाजनितो विभागः संयागविनाशविशिष्ट कालमपेक्ष्य तन्तुविनाशसमकालम् आकाशादिदेशेनेव तन्त्वन्तरेणापि विभागमारभते। तन्तुविनाशविशिष्टञ्चापेक्ष्य द्वितन्तुकविनाशसमकालञ्चाश्रयविनाशात् तन्त्वोरेव परस्परं विभागो विनष्टो न तन्त्वन्तरविभागोंऽशुक्रियाजनिताद् विभागाद् उत्पन्नो विनष्ट इत्येकस्मात् तन्त्वन्तरविभागाद् उत्तरो विभागस्तन्त्वाकाशादिविभागो जायते । * अगुल्याकाशविभागाच्छरीराकाशविभागवत् * इत्युदाहरणम् । यथा अमुल्याकाशादिविभागाद् हस्ताकाशविभागः, तस्माच्च विभागाच्छरीराकाराविभागस्तद्वद् इहाप्यंशुक्रियाजनिताद् विभागात् तन्त्वंशुविभागः, तस्माच्च विभागात् 25 तन्त्वाकाशविभागो जायत इति । तस्मिन्नुत्पन्ने प्राक्तनसंयोगस्य प्रतिबन्ध कस्याभावात् कर्म उत्तरसंयोगं कृत्वा तस्माद् विनश्यतीति न कालान्तरावस्थायित्वं दोषः । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy