________________
Shri Mahavir Jain Aradhana Kendra
5
१६४
www.kobatirth.org
20
व्योमवत्यां
Acharya Shri Kailassagarsuri Gyanmandir
अन्ये तु परामर्शज्ञानस्यासत्त्वमेवेति मन्यन्ते । तच्चासत्, अविनाभाव - सम्बन्धस्मरणस्य अनियतत्वान्नियतदेशे प्रतिपत्तिर्न स्यात्, उपनयवैयर्थ्यञ्चेत्युक्तमतः पूर्वमेव न्याय्यम् ।
अत्र तद्गुणसंविज्ञानपक्षे शब्दस्याप्यनुमानेऽन्तर्भावः । तथा च शब्दश्रवणात् समयानुस्मरणे सति परामर्शज्ञानं तस्मात् परोक्षार्थप्रतिपत्तिरिति । अयं गोशब्दः ककुदादिमदर्थवान् गोशब्दत्वात् पूर्वोपलब्धैवंविधगोशब्दवदिति, सम्बन्धावगमेनार्थंप्रतिपादकत्वाच्च धूमवत् ।
तदेतदसत्, गोशब्दस्य ककुदादिमदर्थवत्तायाः प्रतिपादयितुमशक्यत्वात् । तथाहि शब्दस्यार्थेन अन्यसम्बन्धाभावाद् वाच्यवाचकत्वेनार्थ10 प्रतिपादकत्वे साध्ये गोशब्दत्वमहेतुः प्रतिपादकत्वस्य प्रतिपत्त्यवसेयत्वात्, स्वाभाविकसम्बन्धानुपपत्तेश्च । धूमो हि स्वाभाविकसम्बन्धेन सर्वप्राणभृतामनुमेयार्थप्रतिपादकः, न चैवं शब्दः पुरुषेच्छासम्पादितसमयापेक्षस्यार्थप्रतिपादकत्वात् । स्वाभाविकसम्बन्धे हि विनापि सङ्केतं म्लेच्छादिशब्दश्रवणाद् अर्थप्रतिपत्तिः स्यात् । सङ्केतापेक्षस्य तु अर्थप्रतिपादकत्वे स एवास्तु, 15 अलं नित्यसम्बन्धेनेति । न च नित्यसम्बन्धाभावेऽतिप्रसङ्गः, नैमित्तिकशब्दानां द्रव्यत्वादिनिमित्तसद्भावे सत्येव सङ्केतात्, यादृच्छिकशब्दानान्तु पुरुषेच्छा [नु] विधानादिति । यत्र च विशिष्टानुपूर्वीमत्त्वसद्भावस्तदेव नियमेन वाचकम्, इतरच्च वाच्यमिति व्यवस्था सङ्केतज्ञानस्योभयनिष्ठत्वाविशेषादिति ।
सङ्केतस्तु शब्दाद् वृद्धव्यवहारतश्च प्रतीयते । तथाहि, 'इदमस्य वाचकम्', 'इदमस्य वाच्यम्' इति वाक्यात् सङ्केतप्रतिपत्तिः । वृद्धव्यवहाराद् यथा 'देवदत्त ! गामभ्याज शुक्लां दण्डेन' इति प्रयोगाद् अव्युत्पन्नोऽन्वयव्यतिरेकाभ्यां देवदत्तादिशब्देषु सङ्केतं प्रतिपद्यते । वृद्धव्यवहर्तॄणामपि सङ्केतप्रतिपत्तिरन्यतो व्यवहारादित्यनादित्वं परिहारः । यद् वा आदिपुरुष: 25 साक्षाद्रष्टा केषाञ्चित् सङ्केतकर्ता अस्तीति । वाक्यरूपस्तु शब्दोऽर्थप्रतिपत्तौ समयमपि नापेक्षत इति सम्बन्धबलेनार्थप्रतिपादकत्वमसिद्धम् ।
For Private And Personal Use Only