________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
व्योमवत्यां
तथाहि कारणाकारणविभागात् संयोगविनाशे सति कार्याकार्यविभागाभ्युपगमाद् एकक्षणव्यवधानम्, कारणविभागपूर्वकस्य तु विभागस्य संयोगविनाशे द्रव्यविनाशे चानन्तरं भवनमिति क्षणद्वयव्यवधानम् । उत्पलपत्रा
वयवेषु तु वेगवत्सूच्यादिसम्बन्धात् कर्मोत्पत्तौ विभागात् संयोगविनाशे सति 5 पत्रविनाशः, पुनः पत्रान्तरे सम्बन्धात् अवयवकर्मोत्पत्तिरित्ययं क्रमः पत्रशते
ऽप्यूह्य इत्यनेकक्षणशतव्यवधानेऽप्याशुभावित्वस्य भ्रमनिमित्तत्वाभ्युपगमात् । एकक्षणव्यवधाने तु भविष्यत्येव । तस्माद् आशुभावित्वेन यौगपद्याभिमानस्य भ्रान्तत्वात् कारणाकारणविभागाः कार्याकार्यविभागानारभन्त इति ।
* तददन्तरम् * कार्याकार्यविभागानन्तरम्, प्राक्तनसंयोगविनाशे सति 10 कारणाकारणसंयोगश्च कार्याकार्यसंयोगानारभन्ते, न पूर्वम्, प्राक्तनसंयोगस्य
प्रतिबन्धकस्यावस्थानात् । इदन्तु चिरोत्पन्नानां संयोगजसंयोगस्य पूर्व प्रतिज्ञातस्य विभागजविभागानन्तरभावित्वात्, समानोपायतया च अत्रैव निरूपणमिति ।
अथ शरीरस्याकाशादिना विभागः संयोगश्चेति किं प्रमाणम् ? 15 अनुमानम् । तथाहि, शरीरम्, स्वकारणविभागिना विभजते, तद्विभागि
कारणकार्यत्वात्, वीरणविभागितन्तकार्यपटवत् । आकाशादि वा, स्वविभागिकारणकार्यण विभजते, तत्कारणविभागित्वात्, तन्तुविभागिवीरणवत् । एवं शरीरम्, स्वकारणसंयोगिना संयुज्यते, तत्संयुक्तकारणकार्य
त्वात्, वीरणसंयुक्ततन्तुकार्यपटवत् । सिद्धे तु शरीराकाशदिसंयोग शरीरस्य 20 तस्मिन् काले निष्क्रियत्वाद् अवयवक्रियायाश्च सत्त्वेन आश्रयान्तरेणैव समवेत
कार्यजनकत्वप्रतिषेधात्, असमवायिकारणञ्च विना भावस्योत्पत्तेरदर्शनात्, अन्यस्य चासम्भवे सति कारणाकारणसंयोगात् तस्योत्पत्तिः कल्प्यत इति । शरीराकाशादि समवायिकारणम् । विशिष्टा च दिनिमित्तकारणमिति ।।
यदि कारणविभागानन्तरं कार्यविभागोत्पत्तिःकारणसंयोगाच्चानन्तरं 25 कार्यसंयोगोत्पत्तिः, नन्वेवमवयवावयविनोर्यतसिद्धिदोषप्रसङ्ग इति ।
न, युतसिद्ध्यपरिज्ञानात् । सा पुनयोरन्यतरस्य वा पृथग्गतिमत्वम्, इयन्तु नित्यानाम्, अनित्यानान्तु युतेष्वाश्रयेषु समवायो युतसिद्धिरिति ।
For Private And Personal Use Only