SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८३ गुणवैधर्म्यप्रकरणम् संयोगानारभते तदा ते कारणाकारणविणामाः कर्म या दिशं प्रति कार्यारम्भाभिमुखं तामपेक्ष्य कार्याकार्यविभागानारभन्ते । तदनन्तरं कारणाकारणसंयोगाच्च कार्याकार्यसंयोगानिति । कारणाकारणविभागादपि विभागः कथं भवतीत्याह यदा हस्ते कर्मोत्पनम् * इत्यादि । हस्ते स्वकारणात् कर्मोत्पन्नमवयवान्तरविभागं द्रव्यारम्भक- 5 संयोगविरोधिनमकुर्वद् आकाशादिदेशेभ्यो विभागानारभत इत्यादिपदेनात्मादेरवरोधः । तांस्त्वारभ्य यदा पूर्वसंयोगविनाशे सति प्रदेशान्तरैराकाशादिदेशैः संयोगानारभते तस्मिन् काले * ते कारणाकारणविभागा: कार्याकार्यविभागानारभन्ते - इति । हस्तः शरीरस्य कारणम् आकाशादि चाकारणं तद्विभागाः,कार्य शरीरं हस्तस्य अकार्यमाकाशादि, तद्विभागानारभन्त इति। । तदुत्पत्तो शरीराकाशादेः समवायिकारणत्वम्, हस्ताकाशादिविभागानाञ्च असमवायिकारणत्वम् । प्रत्यासत्तिस्तुभयरूपापि सम्भवतीति वाधकानुपपत्तेअह्यिा। कार्यकार्यसमवायान्न व्यधिकरणत्वम्, एवंविधायाः प्रत्यासत्तेरन्यत्र कर्मण्युपलम्भात् । अथ प्रत्यक्षेणैव हस्तपुस्तकविभागसमकालं शरीरस्यापि तेन विभागो- 15 पलब्धेः कमवासमवायिकारणमिति कल्प्यते ? न, आशुभावित्वेन उत्पलपत्रशतव्यतिभेदवत् प्रत्यक्षाभिमानस्य भ्रान्तत्वात् । यथा हि, युगपदुत्पलपत्रशतं व्यतिभिन्नमिति प्रत्यक्षज्ञानं ग्राहिणानुमानेन बाध्यमानत्वादप्रमाणम्, एवं तत्रापि हस्तविभागसमकालं शरीरस्यापि तेन विभाग इति योगपद्यज्ञानमनुमानबाधितत्वादप्रमाणम् । किमनुमानमिति चेत् ? अवयवकर्मणो विभिन्ना- 20 श्रयत्वम् । तथाहि, विवक्षितावयवकर्म, स्वाश्रयव्यतिरिक्ताधारसमवेतमेव विभागं नारभते, कर्मत्वात्, उभयाभिमतकर्मवत् । न च अनुष्णोऽग्निः, कृतकत्वाद् इत्यनुमानवत् प्रत्यक्षेणास्य विरोधः, पञ्चरूपत्वात् । तथाहि, दुष्टमनुमान प्रत्यक्षेण स्वविषयसहकारिणा बाध्यते, दुष्टश्च प्रत्यक्षमनुमानेनेति । तस्मादनुमानस्याबाधितविषयत्वाद् विभागेऽपि आशुभावित्वेन यौगपद्यग्रहणम्, 25 न अर्थतथाभावादिति । दृष्टश्चानेकक्षणशतव्यवधानेऽप्याशुभावित्वं भ्रमनिमित्तम् उत्पलपत्रशतव्यतिभेदे, किं पुनरेकक्षणव्यवधाने क्षणद्वयव्यवधानेवेति । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy