________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
८५ त्वगिन्द्रियशरीरयोः पृथग्गतिमत्त्वं नास्ति युतेष्वाश्रयेषु समवायोऽस्तीति परस्परेण संयोगः सिद्धः। अण्वाकाशयोस्त्वाश्रयान्तराभावेऽप्यन्यतरस्य पृथगगतिमत्त्वात् संयोगविभागौ सिद्धौ। तन्तुपटयोरनित्ययोराश्रयान्तराभावात् परस्परतः संयोगविभागाभाव इति । दिगादीनान्तु पृथग्गतिमत्त्वाभावादिति परस्परेण संयोगविभागाभाव इति ।
एवं निर्णीते विभागजविभाग पूर्वपक्षवादी असद्रूषणमाह * यदि कारणविभागानन्तरं कार्यविभागोत्पत्ति: कारणसंयोगाच्चानन्तरं कार्यसंयोगोत्पत्तिः * न समकालम् । * नन्वेवम् अवयवावयविनोयुतसिद्धिदोषप्रसङ्ग इति * । न युक्तमेतत् । कुतः ? * युतसिद्ध्यपरिज्ञानान् * । न परेण युतसिद्धिर्विज्ञाता यत एवमाहेति । तथाहि, परस्परसंयोगविभागयोग्यता युत- 10 सिद्धिः । अवयवानां हि पदार्थान्तरैः संयोगविभागयोग्यता तथा अवयविनः सम्भवत्येव न तु परस्परमित्यव्यभिचारः। सम्भवे वा युतसिद्धिरेवेति न समवायः स्यात् । अस्ति चासाविति वक्ष्यामः ।
इदन्तु सामान्यलक्षणं युतसिविशेषलक्षणाल्लभ्यत एव, विशेषस्य सामान्यव्याप्तत्वदिति विशेषलक्षणमाह * सा पुनर्द्वयोरन्यतरस्य वा पृथग्गति- 15 मत्त्वम् * इतीयं नित्यानां युतसिद्धिः । द्वयोः परमाण्वोः पृथग्गतिमत्त्वं युतसिद्धिः, आकाशपरमाण्वोश्चान्यतरस्य पृथग्गतिमत्त्वमिति । तच्च परस्परं संयोगविभागजननयोग्यत्वं विवक्षितम् । अन्यथा हि द्वयणुकारम्भकयोः परमाण्वोद्वर्यणुके व्रजति गमनोपलब्धेद्वर्यणुकेन सह युतसिद्धिः स्यात् ।
अनित्यानान्तु युतेषु पृथग्भूतेष्वाश्रयेषु समवायो युतसिद्धिरिति । 20 नन्वेवमपि अवयवावयविनोर्युताश्रयसमवायाद् युतसिद्धिः स्यात् । तथाहि, अवयवी अवयवेषु वर्तते अवयवाश्च स्वावयवेष्विति युताश्रयसमवायः ? न, अभिप्रायापरिज्ञानात् । यदा [ ? था ] घटतदाश्रयव्यतिरेकेण आश्रयान्तरे समवायः पटस्य, पटतदाश्रयव्यतिरेकेण घटस्य नैवमवयविनोऽवयवव्यतिरेकेण आश्रयान्तरे समवायः, तस्मान्न युतसिद्धिः । अत्रापि द्वयोर्युता- 25 श्रयसमवायित्वम् अन्यतरस्य वेत्यनुवर्तते । द्वयोर्यथा घटपटयोरन्यतरस्य,
For Private And Personal Use Only