________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
यथाकाशघटयोरन्यतरस्य, घटस्य युतेष्वाश्रयेष्वसमवायो नाकाशस्य, अनाश्रितत्वात् ।
नन्वेवं तहि नित्येष्विवानित्येष्वपि पृथग्गतिमत्त्वस्य सम्भवात् सैवास्तु, कृतं युताश्रयसमवायित्वेनाव्यापिना। नैतदेवम्, अनित्येषु पृथग्गतिम5 त्त्वस्यान्वयव्यतिरेकाभावाद् युताश्रयसमवायित्वमेव । तत्सद्भावात् सैव
युतसिद्धिरित्याह * त्वगिन्द्रियशरीरयोः पृथग्गतिमत्त्वं नास्ति । युतेषु तु समवायोऽस्तीति * परस्परेण संयोगः सिद्धः । तथाहि, त्वगिन्द्रियशरीरयोरामरणं विभागानुपपत्तेः पृथग्गतिमत्त्वाभावेऽपि परस्परेण संयोगप्रसिद्धेर्युताश्रयसमवायित्वमेव युतसिद्धिः, तयोरितरेतराश्रयपरिहारेण स्वाश्रयेष्वेव समवायात् । एवम् उत्पन्नमात्रस्य घटादेर्गतिमत्त्वाभावेऽपि रूपाद्युत्पत्तिसमकालम् आकाशादिना संयोगोपलब्धेरन्यतरस्य युताश्रयसमवायित्वमेव युतसिद्धिः ।
नित्यानान्तु युताश्रयसमवायाभावेऽपि संयोगविभागोपलब्धेः पृथग्गतिमत्त्वमेव युतसिद्धिरित्याह * अण्वाकाशयोस्तु * युताश्रयसमवायित्वाभावेऽपि । 15 * अन्यतरस्य पृथग्गतिमत्त्वात् संयोगविभागौ सिद्धौ इति ।
एवमनित्यानां युताश्रयसमवायित्वस्य, नित्यानान्तु पृथग्गतिमत्त्वस्यान्वयोपदर्शनान्तरं व्यतिरेकमाह तन्तुपटयोरनित्ययोराश्रयान्तराभावात् परस्परतः संयोगविभागाभाव इति * यद्यपि तन्तवोंऽशुषु वर्तन्ते तथापि पटद्रव्ये न तन्तुव्यतिरेकेण आश्रयान्तरमस्तीति युताश्रयसमवायित्वाभावः । तदभावान्न परस्परेण संयोगविभागाविति । विशिष्टञ्च पृथग्गतिमत्त्वस्य घटपरमाण्वोस्तु उभयसम्भवाद् उभयावरोधोऽन्यतरावरोधो वेति, उभयावरोध एव ? इव] अन्यतरावरोधे विशेषहेत्वभावात् । तथाहि, नित्ये परमाणौ पृथगगतिमत्त्वम् अनित्ये तु घटे युताश्रयसमवायित्वम् उभयोरुभयत्रान्वयव्यतिरेकाभ्यां समर्थनाद् अत्र सम्भवेन ग्रहणं न्याय्यम् । यत्र चानित्यमेव तत्र पृथग्गतिमत्त्वसद्भावेऽपि युताश्रयसमवायित्वस्यावरोधः, यथा घटाकाशयोर्द्वयोर्वा घटयोरित्यलमतिविस्तरेण । तस्मात् कारणविभागानन्तरं कार्यविभागः, कारणसंयोगान्तरं कार्यसंयोगो युतसिद्धिरिति अपरिज्ञातयुतसिद्धेर्वचनमिति ।
For Private And Personal Use Only