SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणधर्म्यप्रकरणम् यच्चेदं शक्तानां कारणानां कार्योत्पत्तौ व्यापाराच्छक्तिरूपतया कार्यस्यावस्थानमित्युक्तम्, तदसत् शक्तेश्चरमसहकारिरूपतया कार्यादर्थान्तरत्वात् । न च कार्यकारणयोरेकत्वम्, विभिन्नप्रतिभासविषयत्वात् । प्रतिभासभेदश्च पदार्थानां भेदव्यवहारे हेतुः । तत्सद्भावेऽप्येकत्वाभ्युपगमे सर्वेषामेकताप्रसङ्गान्न चतुर्विंशतितत्त्वानीति स्यात् । तथा स्वरूपभेदोऽर्थक्रियाभेदश्च कार्यकारणयोः । सूक्ष्ममनेकञ्च समवायिकारणम्, अधिकमेकञ्च कार्यंमिति, तस्य पूर्वं कारणेष्वसत्त्वम्, अनुपलम्भात् । अथानभिव्यक्तेरनुपलम्भ: ? सद्भावे किं प्रमाणम् ? उत्पत्तेरिति चेत्, न, विद्यमानस्योत्पत्तेरयोगात् । अथ अविद्यमानस्योत्पत्तौ खरविषाणादीनामुत्पत्तिः स्यात् ? [न] कारणाभावात् । येषां हि कारणमस्ति जनकं तेषामेवोत्पत्तिर्न खरविषाणादिष्वेतदस्ति, कार्याभावेनैव 10 कारणाभावप्रतीतेः । एवं तन्तुषु घटादेर्मृत्पिण्डे च पटादेरनुत्पत्तिर्वाच्या, प्रतिनियतसामग्र्याः प्रतिनियतकार्यजनकत्वात् । तन्तूपलक्षिता हि सामग्री पटस्यैव जनिकोपलब्धा, अन्या तु अन्यस्येत्युपादानेषु कार्यनियमो, न सत्त्वादिति । यच्चोत्पद्यते तदुत्पत्तेः पूर्वमसत्, न पुनर्यद् यदसत् तदुत्पद्यत इति व्याप्तिः । १२९ यच्चोत्पद्यमानत्वेन हेतुना सत्त्वम्, तदसत्, तस्यासाधारणत्वेनागमकत्वात् । तथाहि सति आकाशादौ, असति च खरविषाणादौ, उत्पद्यमानत्वं नास्तीति । For Private And Personal Use Only 5 15 यच्चायं व्यपदेशोऽङ्कुरो जायते, घटं कुर्विति अयमपि मुख्ये बाधकप्रमाणसद्भावाद् भाक्तो द्रष्टव्यः । तथाहि, यदि विद्यमानस्यैव घटस्य कर्मत्व- 20 मङ्कुरस्य च कर्तृत्वमिष्येतोत्पत्तिर्व्याहता स्यात्, विद्यमानत्वादेव कारकव्यापारवैयर्थ्यञ्च । अथाभिव्यक्त्यर्थं व्यापारः, तदसत्, अभिव्यक्तेरपि विद्यमानत्वात् । अथाभिव्यक्तिरविद्यमानैव क्रियते ? तर्हि सदुत्पद्यत इति व्याहतम् । अभिव्यक्तस्तु स्वरूपोपलम्भस्य अविद्यमानस्यैवोत्पत्तेः । न चावरणव्यपगमोऽभिव्यक्तिः, आवरणस्यैवानुपलब्धेः । तस्माद् विद्यमानस्य उत्पत्त्यर्था - 25 सम्भवाद् उपचरितमङ्कुरादेः स्वजनिकर्तृत्वं कर्मत्वञ्चेति व्यपदेशस्यान्यथासिद्धत्वम् । १७
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy