________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
व्योमवत्यां
शक्तिप्रवृत्तेश्च । शक्त्या हि कारणं कार्यार्थिनोपादीयत इति सर्वं कार्य स्वकारणे शक्तिरूपतया व्यवस्थितं तावद् यावत् प्रधानमिति । नन्वेवं सर्वस्यापि कार्यस्य प्रधानादभेदे विद्यमानत्वात् कथमुत्पत्तिविनाशाविति ? असतः
खरविषाणादेरिव कार्यत्वानुपपत्तेः सत एवाविर्भावतिरोभाविति ब्रूमः । 5 शक्तिरूपतया हि व्यवस्थितं कार्यं परं व्यक्तिरूपतामापद्यते । पुनस्तु तिरोभावे शक्तिरूपतया व्यवतिष्ठते, न सन्निरुध्यत इति ।।
तथा परस्परमुपकार्योपकारकभावेनावस्थितानाम् आसन्दिकाङ्गानामेकस्मात् कारकाद् उत्पत्तेरुपलम्भाच्छरीरादेरपि तथाभावोपलब्धेरेककारणपूर्वकत्वं साध्यते ।
तथा दध्यादिवैश्वरूप्यस्यैकस्मात् क्षीरादुत्पत्तेरुपलम्भाच्छरीरादिवैचित्र्यस्याप्येककारणपूर्वकत्वं साध्यते । यच्चैकं कारणं तत् प्रधानमिति । तस्माच्च महान्, महतोऽहङ्कारः, तस्मात् पञ्चतन्मात्राणि एकादशेन्द्रियाणि, तेभ्यो भूतानीति ।
___ सर्वमेतदसत्, अन्वयादेर्गमकत्वानुपपत्तेः । तथाहि, शरीरादेरेककारण15 पूर्वकत्वे साध्येऽन्वितत्वमहेतुः सन्दिग्धत्वात् । अथ सुखदुःखादिसमन्वितत्वं
हेतुः, तन्न, स्वरूपासिद्धत्वात् । तथाहि, सुखःखादीनां पूर्वमेवात्मगुणत्वेन प्रतिपादितत्वात् शरीरादिगुणत्वमसिद्धम् । घटादिदृष्टान्तोऽपि साधनविकल: । तत्रान्वितस्यैककारणपूर्वकत्वेन व्याप्तस्यानुपलम्भात् । अथ मृदन्वितत्वं
घटादावस्ति, तच्चासिद्धम्, पक्षे प्रत्यक्षेण च शरीरादेरुपादानं प्रतिनियत20 जातीयमनेकमुपलभ्यत इति, कालात्ययापदिष्टञ्च साधनम् ।
एवं परिमितत्वमियत्तावधारणविषयत्वमसिद्धम्, अवान्तरभेदेन शरीरादेरानन्त्यात् । अथ वर्गापेक्षया परिमितत्वम्, तथाप्यनैकान्तिकत्वम्, परदृष्टया नित्येष्वपि भावात् । सत्त्वरजस्तमांसि च परिमितानि न चैककारणपूर्वका
नीति, प्रधानस्यैव तद्रूपत्वात् । तथा एककारणपूर्वकत्वाभावेऽपि परमाण्वा25 दीनि वर्गापेक्षया परिमितानीति । अङकुरादेरपि भौमानलसम्बन्धाद् बीजा
वयवक्रियाक्रमेण पूर्वद्रव्यविनाशे सति द्व्यणुकादिप्रक्रमेणोत्पादाद् एककारणपूर्वकत्वमसिद्धम् ।
For Private And Personal Use Only