________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७
गुणवैधर्म्यप्रकरणम् साधनम् । वेदानाञ्च स्वरूपेऽप्यर्थे प्रामाण्यमित्येवं * हितमुपदिशत्सु * वैशेषिकेषु नैवं भवतीति ज्ञानं विपर्ययो मीमांसकसौगतजैनानाम् ।
यदा तु न परमशिवादेः सद्भाव इति वैयात्याद् वदन्ति वैशेषिकास्तदा नेदं परमार्थतो हितमिति हितमुपदिशत्सु वैशेषिकेषु अहितमेवेदमिति ज्ञानं विपर्ययस्तेषाम् ।
यहा संसार्यात्मनां नानात्वम्, परमशिवश्चैतेभ्यो भिन्नः, तदाराधनाच्चास्मदादेः श्रेयो भवतीत्येवं हितमुपदिशत्सु वैशेषिकेषु अहितमिति ज्ञानं विपर्ययः ।
द्वैतवादिनां तदर्था नभ्युपगमेन च वचनेन हितमिति ज्ञानं विपर्ययः । तेषां क्षित्यादिकार्यं परमाणुभिव्यणुकादिप्रक्रमेणारब्धमीश्वरकर्तृकञ्चेति, 10 एवं हितमुपदिशत्सु, वैशेषिकेषु नैवमेतत् प्रधानपूर्वकत्वाज्जगत इति ज्ञानं विपर्ययः सांख्यानाम्, प्रधानस्तित्वे प्रमाणाभावात् ।
अथास्ति अन्वयपरिमाणशक्तिप्रवृत्त्युपकार्योपकारकभाववैश्वरूप्येभ्यः प्रधानम् । तथाहि, सर्वमिदं शरीरादिकार्य सुखदुःखमोहान्वितमुपलभ्यते, यच्चान्वितं तदेकस्मात् कारणादुत्पद्यमानं दृष्टम्, यथैकस्मात् मृत्पिण्डात् 15 मृदन्वितमनेकघटादि । तथाचानुमानम्, भुवनादिकार्यम् एकस्मात् कारणादुत्पद्यते अन्वितत्वात् घटादिवत् । तथा चास्य पक्षधर्मत्वं सुखदुःखादिसमन्वयस्य सर्वेषु शरीरादिषु भावात् । न च अतत्स्वभावात् कारणात् सुखादेरुत्पत्तिरिति शरीरादेः सुखदुःखमोहात्मकत्वम्, तज्जनकत्वात्, तथा प्रसादादिजनकत्वोपलब्धेश्च तत्स्वभावत्वम् । सुखादयस्तु सत्त्वरजस्तमसां 20 परिणामविशेषास्ततोऽर्थान्तरं न भवन्ति, कार्यस्य कारणाद् भेदानुपपत्तेः । अतः सत्त्वरजस्तमांस्येव शब्दाद्यात्मना व्यवतिष्ठमानानि सुखदुःखमोहात्मकं कार्यमुपजनयन्तीति शब्दादयोऽपि न सत्त्वादिभ्यो व्यतिरिच्यन्ते । सत्त्वरजस्तमसाञ्च साम्यावस्था प्रधानम् ।
तथा परिमितत्वाच्च । यत् परिमितं तत् एकस्मात् कारणादुत्पद्यते, 25 यथाकूरादि बीजात् । परिमितत्वञ्च इयत्तावधारणविषयत्वम् । तथा शरीरादि कार्यम् एकस्मादुत्पद्यते परिमितत्वात् अङ्कुरादिवत् ।
For Private And Personal Use Only