________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न तु परमार्थतः । तदाह,
१०७
,
तथा विज्ञानकालेऽर्थस्यासद्भावाद्, अर्थंकाले तु ज्ञानस्येति कथं तयो - ग्रह्यग्राहकभावः सदसद्रूपयोस्तदभावात् । एकस्मिश्च काले द्वयोरुत्पत्त्यभ्युपगमे किं ग्राह्यं किञ्च ग्राहकमित्यविशेषात् । न च विज्ञानार्थयोः स्वात्मन्येव पर्यवसाने अर्थाधीनतायाः प्रतिपत्तुमशक्यत्वाद् ग्राह्यग्राहकभावः । तथा अवयविप्रतिषेधद्वारेण रूपादिसमुदायमात्रम्, तच्च समुदीयमानेभ्यो नार्थान्तरमिति व्यवस्थायामर्थाभाव एव समुदायस्य परमार्थसत्त्वेनाप्रतिभासनात् । ये तु परमार्थसन्तः परमाणवस्तेऽस्मद्दर्शनविषया न भवन्त्येव, अतीन्द्रियत्वात् । कार्यञ्चापरमार्थसत्त्वात् प्रतिभासमानमलिङ्गमेव । तस्मादनादिवासनावशाद् विज्ञानांश एव ग्राह्यग्राहकप्रविभागः । एतदाह,
अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्ति भेदवानिव
गुणधर्म्यप्रकरणम्
Acharya Shri Kailassagarsuri Gyanmandir
लक्ष्यते ।। ( प्र.वा. २।३५४ )
नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्
स्वयं सैव प्रकाशते || ( प्र.वा. २१३२७ )
ननु तर्हि नीलमहं वेद्मि चक्षुषेति प्रतिभासः कथम् ? तथाहि, नीलमिति कर्म, अहमति कर्ता, वेद्मीति क्रिया, चक्षुषेति करणम् । एतेषां परस्परव्यावृत्तवपुषां प्रतिभासनाद् अभेदप्रतिपादनमुन्मत्तभाषितम् ? नैतदेवम् । तैमिरिकस्य द्विचन्द्रदर्शनबदस्याप्युपत्तेः । यथा हि तैमिरिकस्यार्थाभावेऽपि तदाकारं विज्ञानमुदेति एवं कर्मादिष्वविद्यमानेष्वपि अनादिवासनावशात् तदाकारं विज्ञानमिति । अथ तैमिरिकस्य केशादिज्ञानं बाध्यमानत्वान्निविषयम्, न चैवमेतत्, तदसत्, बाध्यवाधकभावस्यैवासम्भवात् । तथाहि, न विज्ञानमर्थेन बाध्यते, प्रतीयमानाप्रतीयमानाभ्यां बाध्यत्वेऽतिप्रसङ्गात् । प्रतीयमानेन हि बाधायां सर्वं विज्ञानं बाध्यं स्यात्, एवमप्रतीयमानेनापीति ।
अथ ज्ञानेनैव ज्ञानं बाध्यते, तत्रापि न विभिन्नविषयेण रूपज्ञानेन रसादिज्ञानस्यापि बाधप्रसङ्गात् । समानविषयत्वे तु सम्पादकत्वमेव स्यान्न बाधकत्वम् । न च विज्ञानस्योत्पत्तिविनाशो वा बाधात्, सर्वस्यापि तथा
For Private And Personal Use Only
5
10
15
20
25