________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
व्योमवत्या
भावप्रसङ्गात् । अथ विषयान्तरोपसर्पणा मिथ्यापत्तिबर्बाधः ? तदसत्, विषयस्य कर्मकारकरूपत्वात्, यत्रोत्पद्यते ज्ञानं स एव तस्य विषय इति विषयान्तरोपसर्पणमसिद्धम् । विज्ञाने बाध्यबाधकसद्भावस्यैवाप्रसिद्धेर्न मिथ्याज्ञानमस्तीति । नापि संविदि सम्यक्त्वम्, प्रमाणाभावात् ।
अथ अर्थक्रियासंवादः प्रमाणम् ? न, तत्रापि संवादकापेक्षायामनवस्थाप्रसङ्गात्, संवादकञ्च विना न सम्यक्त्वसिद्धिरिति । न चार्थक्रियापि बोधाद् भिद्यते, सर्वस्यापि प्रतिभासमानस्य बोधादव्यतिरेकात् । यथोक्तम्,
प्रकाशमानस्तादात्म्यात् स्वरूपस्य प्रकाशकः । यथा प्रकाशोऽभिमतस्तथा धीरात्मवेदिनी ।।
(प्र. वा. २।३२९) इति । यदि च पदार्थानां निजं स्वरूपादि यथैकस्य प्रतिभासस्तथा सर्वेषामपीति विसंवादो न स्यात् ? न चैतदस्ति । तथाहि,
मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः ।
अन्यथैवावभासन्ते तद्रूपरहिता अपि ॥ (प्र. वा. २।३५५) इति । 15 अथ चोपप्लुतचक्षुषामन्यथा प्रतिभासस्तत इति किं प्रमाणम् ? अनुपप्लुतचक्षुषां तथैव दर्शनमिति । तदाह,
तथैव दर्शनात्तेषामनुपप्लुतचक्षुषाम् । दूरे यथा वा मरुषु महानल्पोऽपि दृश्यते ॥ (प्र. वा. २।३५६) इति ।
अव्यवस्थामेवोत्तरार्धेन दर्शयति, एवमेकशो बद्ध्या विचार्यमाणेषु 20 भावेषु रूपं न व्यवतिष्ठते । यथा हि, तन्तुषु विचार्यमाणेषु पटस्याव्यवस्थानम्,
अंशुव्यतिरेकेण तन्तूनाम्, इत्याधुह्यम् । कथं हि शाक्याः स्नानादिक्रियासु प्रवर्तन्ते, बाह्यार्थस्यासत्वादिति ? लोकव्यवहारानुसारितया । यथाहि, अपरीक्षका बाह्यमर्थम् अविद्यावशात् प्रतिपद्यमानाः प्रवर्तन्ते तद्वत् परीक्षका अपीति, 'लोकव्यवहारं प्रति सदृशौ बालपण्डितौ' इति न्यायात् ।
तदेतदसत्, अर्थविशेषादुत्पत्तिमन्तरेण बुद्धिविशेषस्याभावप्रसङ्गात् । रूपज्ञानं रसज्ञानमित्यादि परस्परं व्यावृत्तस्वरूपाणि ज्ञानानि प्रथन्त इत्यर्थ
25
For Private And Personal Use Only