________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम् विशेषोऽभ्युपगन्तव्यः । अथ वासनाविशेषाद् विज्ञानविशेषः ? तस्या अपि विशिष्टज्ञानजनकत्वेऽपि ज्ञानाद् व्यतिरेके च संज्ञाभेदमात्रम् । अव्यतिरेके तु ज्ञानरूपोभयं सर्वत्राविशिष्टमिति रूपज्ञानं रसज्ञानमित्यादिवैचित्र्याभावः । न चाकारविशेषाद् विज्ञानविशेषः, तस्याप्यसम्भवात् । तथाहि, ज्ञानमात्रस्य वास्तवाकारतायां नीलदिज्ञानं वास्तवाकारत्वात् प्रमाणम्, द्विचन्द्रादि- 5 ज्ञानञ्चावास्तवाकारत्वादप्रमाणमिति विशेषव्याघातः, वास्तवाकारतायाः सर्वत्राविशेषात् । अथावास्तवाकारम्, तथापि विशेषाभ्युपगमहानिः, वादिप्रतिवादिनोश्च जयपराजयव्यवस्था न स्यात्, उभयोरप्रमाणेन प्रवृत्तरविशेषात् ।
न चावास्तवस्य विज्ञानतादात्म्यम्, सदसद्रूपयोः खरविषाणयोरिवै- 10 कत्वादर्शनात् । अत एव, सहोपलम्भनियमादभेदो नीलतद्धियोः ।
(धर्मकीर्तेरिति प्रज्ञाकर भा० पृ० १२७) __इत्येकत्वसाधनमुन्मत्तभाषितम् । असतः सत्तादात्म्ये सत्त्वम्, असत्तादात्म्ये तु तद्रूपत्वमिति । तथा परप्रसिद्धया नियमेन सहोपलभ्य- 15 मानत्वं भेदेनैव व्याप्तमिति विरुद्धं स्यात् । अथ साहाय्यं यौगपद्यं वा विवक्षितं सहोपलभ्यमानत्वम् ? तथापि तयोर्भेदेनैव व्याप्तत्वाद् विरुद्धत्वम् । तथा सर्वज्ञः स्वचित्तेन सहोपलभते परचित्तम्, न च तस्य तस्मादभेद इति व्यभिचारः, सर्वेषां सर्वज्ञताप्रसङ्गात् । न चैकस्यैवोपलम्भनियमो हेतुः, अशब्दार्थत्वात्, साध्याविशिष्टत्वाच्च । तथा अनेकरूपाद्यवयवस्य हि तस्यार्थ- 20 स्योपलम्भे स्वरूपासिद्धोऽपीति ।
अथ बाह्यार्थाभावादेकोपलम्भनियमः ? तन्न, इतरेतराश्रयत्वप्रसङ्गात् । तथा चैकोपलम्भनियमात् बाह्याभावसिद्धिः, तसिद्धेश्चैकोपलम्भनियमसिद्धिरित्येकाभावादितराभावः । अथैकेनैवोपलभ्यमानत्वं साधनम् ? न, अन्यवेदनाभावस्याप्रसिद्धेः । अर्थस्तु तत्समानक्षणैरन्यैरप्युपलभ्यत इत्येके- 25 नैवोपलभ्यमानत्वमसिद्धम् । सच्चन्द्रासच्चन्द्रदृष्टान्तो सदसतोरेकत्वविरोधात् साध्यविकल:, साधनविकलश्च, असतश्चन्द्रस्य सत्त्वेनोपलम्भाभावात् ।
For Private And Personal Use Only