SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणवैधयंप्रकरणम एकस्मिश्च द्वयोर्हेत्वोर्यथोक्तलक्षणयोविरुद्धयोः सन्निपाते सति संशयदर्शनादयमन्यः सन्दिग्ध इति कचित् । यथा सूर्तत्वामूर्तत्वं प्रति मनसः कियावत्वास्पर्शवत्वयोरिति । नन्वयमसाधारण एव अचाक्षुषत्वप्रत्यक्षत्ववत् संहतयोरन्यतरपक्षासम्भवात्, ततश्चानध्यवसित इति वक्ष्यामः । ननु शास्त्रे तत्र तत्र उभयथा दर्शनं संशयकारणमपदिश्यत इति, न, संशयो विषयद्वैतदर्शनात् । संशयोत्पत्तो विषयवतदर्शनमेव कारणम्, तुल्यबलत्वे च तयोः परस्परविरोधात् निर्णयानुत्पादकत्वं स्थान तु संशयहेतुत्वम् । न च तयोस्तुल्यबलत्वमस्ति अन्यतरस्यानुमेयोद्देशस्यागमबाधितत्वाद् अयन्तु विरुद्ध भेद एव । 10 ____ * यस्तु सन्ननुमेये * व्याप्त्या * तत्समानासमानजातीययोः * सपक्षविपक्षयोः सन्नेव, स सन्दिग्धोऽनैकान्तिकः । * सन्देहजनकत्वात् * इति कार्योपन्यासो न तु लक्षणम्, इन्द्रियादिष्वपि सद्भावेनातिव्यापकत्वात् । उदाहरणन्तु * यथा यस्माद् विषाणी तस्माद् गौरिति * विषाणिनं पिण्डं पक्षीकृत्य गौरिति साधयतो विषाणित्वादिति हेतुरनैकान्तिकः, पक्षत्रयवृत्ति- 15 त्वात् । अयन्तु सपक्षव्यापकत्वे सति विपक्षकदेशवृत्तिः । अगौरयं विषाणित्वात् इति सपक्षकदेशवृत्तित्वे सति विपक्षव्यापकः । सपक्षविपक्षैकदेशवृत्तिश्च नित्यः शब्दः अस्पर्शवत्त्वात् इति चतुर्विधोऽनैकान्तिकः । अथ चातुविध्यमनुपपन्नम्, अनैकान्तिकस्य लक्षणञ्चाव्यापकम्, विरुद्धाव्याभिचार्यसाधारणयोरव्यापनाद् इत्याशङ्काप्रतिषेधार्थम् * एकस्मिश्च 20 द्वयोः * इत्यादि प्रकरणम् । द्वयोर्हेत्वोविभिन्नधर्मिस्थयोः सन्निपाते संशयादर्शनात् यथा नित्यः शब्दः कार्यत्वात्, नित्यमाकाशम् अकार्यत्वाद् इति एकस्मिन् धर्मिणीति पदम् । तथाथाप्येकस्मिन् धर्मिणि द्वयोः सन्निपातेऽपि न संशयो यथा अनित्यः शब्दः कार्यत्वात्, नित्यस्त्वमूर्तकार्यत्वादिति तदर्थं * यथोक्तलक्षणयोः ।' 25 तथाप्यविरुद्धार्थसाधकयोरेवंविधयोरपि न संशयहेतुत्वं यथा नित्यः For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy