________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
व्योमवत्यां
शब्द: कार्यत्वात्, आश्रितो गुणत्वात् । अतो * विरुद्धयोः * विरुद्धार्थसाधकयोः सन्निपाते संशयस्य दर्शनात् * अयमन्यः सन्दिग्धः * अनैकान्तिक इति केचित् । उदाहरणन्तु * यथा मूर्तत्वामूर्तत्वं प्रति मनसः क्रियावत्त्वास्पर्शवत्त्वयोरिति * ।
मूर्तं मनः क्रियावत्त्वात् छत्रवत् इत्येकः, अमूर्तं मनः अस्पर्शवत्त्वात् आकाशवत् 5 इत्यपरः । उभयोश्च पक्षधर्मान्वयव्यतिरेकवत्त्वोपलब्धेः किं मूर्तं मनः स्यादुत अमूर्तमिति संशयः ।
तदसत्, अभयोः प्रयोगासम्भवात् । तथाहि, एकस्मिन् साधने प्रयुक्त तस्य निर्दुष्टतायां साध्यसिद्धेरन्यस्य उपन्यासानुपपत्तिः, दुष्टतायां वा सैव
अस्य अभिधेयेति । न च परस्परविरुद्धार्थसाधकत्वमेव अनुमानयोर्दोषः, प्रमा10 णेन उभयोरेकत्र सद्भावसिद्धौ विरोधस्याभावप्रसङ्गात् । अव्यभिचार्यानुमा
नयोश्च अवश्यमर्थव्यवस्थापकत्वम्, अव्यभिचारस्य तल्लक्षणत्वात्, विपर्यये तु व्यभिचारित्वमेव । यथा मूर्त मनोऽस्पर्शवत्त्वे सति क्रियावत्त्वात्, अमूर्तञ्च क्रियावत्त्वे सत्यस्पर्शवत्त्वात् इति समस्तयोः प्रयोगः ।
तत्रापि असाधारणमित्याह * नन्वयमसाधारण एवं अचाक्षुषत्वप्रत्यक्ष15 त्ववत्, संहतयोरन्यतरपक्षासम्भवात् * इति । यथा हि, रूपातीन्द्रियगुणव्यति
रेकेण अन्यगुणानां गुणव्यवहारे साध्यसामान्यवत्त्वाद् द्रव्यत्वे सति नियमेनाचाक्षुषत्वं हेतुर्न सपने रूपादावस्ति, नापि विपक्षे घटादावित्यसाधारणः; तद्वत् सहचरयोः क्रियावत्त्वास्पर्शवत्त्वयोरन्यतरपक्षासम्भवादित्यन्यतरस्मिन्
सपक्षे विपक्षे वा असम्भवाद् असाधारणत्वम् । न चास्यासङ्ग्रह इत्याह 20 * ततश्चानध्यवसित इति वक्ष्यामः ।
यद् वा चाक्षुषत्वप्रत्यक्षत्ववत् इति वैधोदाहरणम् । यथा हि गुणः शब्द: सामान्यवत्त्वाद् द्रव्यत्वे सति नियमेन अचाक्षुषप्रत्यक्षत्वात् अन्धादिवदिति । अस्य सपक्षैकदेशे वर्तमानस्य विपक्षादत्यन्तं व्यावृत्तिर्न चैवं क्रियावत्त्वास्पर्शवत्त्वयोरित्याह * संहतयोरन्यतरपक्षासम्भवात् * इति ।
एवं विरुद्धाव्यभिचारिणोऽसाधारणस्यच संशयहेतुत्वे निराकृते सूत्रविरोधमुद्भावयन्नाह * ननु(च?)शास्त्रेतत्र तत्रोभयथा दर्शनं संशयकारणमपदिश्यते
For Private And Personal Use Only