________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
व्योमवत्यां प्रसिद्धः । तथा साध्याभिधानस्य पक्षोक्तेः पर्यायत्वात् साध्याविशिष्टता चेति । अथ साध्यानुपयोगित्वात् साध्यानभिधानम्, तदप्यवयवान्तरसहितस्य साध्यप्रतिपादकत्वादसिद्धम्, विपर्यये तु अनैकान्तिकम्, केवलस्य हेतुवचनस्यापि
असाधकत्वात् । तथा प्रतिज्ञावचनमपि असाधनाङ्गमिति वदता अभ्युपगतैव 5 प्रतिज्ञेति व्याघातः ।
अथ स्वप्रतिपत्तौ प्रतिज्ञावचनस्यानुपलम्भात् परप्रतिपत्तावनुपादानम् ? एवं तहि हेतुवचनस्यापि अदर्शनादनुपादानं स्यात् । अथ हेत्वर्थस्योपलम्भाद् युक्तं हेतुवचनम् ? तहि प्रतिज्ञार्थस्योपलव्धेः कार्य प्रतिज्ञावचनम् । यथा हेत्वर्थः कारणं साध्यप्रतिपत्तौ, एवं प्रतिज्ञार्थ: कर्मेत्युभयो: कारणत्वाविशेषात् पक्षस्यावचने प्रमाणं नास्तीति । उपस्थापिते च कर्मणि करणानां प्रवृत्तेरुपलम्भात् तदुपस्थापनार्थमवश्यं कार्य प्रतिज्ञावचनमित्यलं विस्तरेण ।
* अविरोधिग्रहणात् प्रत्यक्षानुमानाभ्युपगतस्वशास्त्रस्ववचनविरोधिनोऽनुमेयोद्देशा निरस्ता भवन्ति * इति व्यवच्छेद्यं दर्शयति । यो ह्यनुमेयोद्देशो न प्रत्यक्षादिना विरुध्यते, सा प्रतिज्ञेति ।
अन्ये तु प्रत्यक्षाद्यविरुद्धोऽनुमेयस्तस्योद्देशः प्रतिज्ञेति व्याख्यां कुर्वते । यद्यपि अनुमेयस्य साध्यस्य साधनार्हतया प्रत्यक्षादिविरोधाभावान्न व्यवच्छेद्य[त्व मस्ति, तथापि किम्भूतं साध्यमित्यपेक्षायां स्वरूपोपवर्णनार्थ प्रत्यक्षाद्यविरुद्धपदम्, प्रत्यक्षशब्देनैव विशिष्टार्थप्रतीतौ इन्द्रियार्थसन्निकर्षा
दिपदवदिति। तच्चासत्, अविरोधिपदस्योद्देशपदेन सामानाधिकरण्यात्, 20 कर्मणः करणेन विरोधाभावाच्चेति । यथाभूतमुपलभ्यमानं कर्म तथाभूत
मनुपलभ्यमानमपि इति उद्योतकरपादैरुक्तम् । प्रतिज्ञा तु करणमिति युक्तस्तत्र विरोधः । ___तत्र प्रत्यक्षविरोधी * यथा अनुष्णोऽग्निः * इति । [अनु?उ]ष्णताया
स्त्वगिन्द्रियेण प्रतिभासनात् । * धनमम्बरमित्यनुमानविरोधी * आकाशस्य 25 अनुमानादेव अमूर्त्तत्वविभुत्वप्रसिद्धेः । घनं निविडावयवमित्युद्देशस्तेन
विरुध्यत एव, घनत्वे सति अस्मदादीनामसञ्चारप्रसङ्गाच्चेति । अभ्युपगतशास्त्रविरोधी यथा * वैशेषिकस्य * सर्वकार्यमुत्पत्तेः पूर्व सदुत्पद्यत?त्
For Private And Personal Use Only