SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ व्योमवत्यां पेक्षया प्रतिषेधः, 'ब्राह्मणान् भोजय' इति ब्राह्मणविशेषापेक्षया नियोगः । तस्माद् व्याप्त्यर्थं वीप्साकरणमिति । अथ वीप्सासद्भावेऽपि व्याप्ति!पलब्धा। यथा अन्तर्वेद्यां ग्रामः, ग्रामो रमणीयः, रमणीयः पुरुषः, पुरुषे गुणविशेष इति वीप्साकरणमत्र । सत्यम्, तथाप्यल्पसंख्यायोगिनि पदार्थे व्याप्तावेव 5 वीप्सोपलब्धेति । ____ अन्ये तु द्वितीयाक्षपदमवधारणार्थमिति मन्यन्ते । अक्षमेव प्रतीत्य प्राप्य यदुत्पद्यते ज्ञानं तत्प्रत्यक्षम् । अथ ज्ञानस्यानुत्पन्नत्वाद् अक्षेण प्राप्तिर्नास्तीति कथमक्षं प्राप्योत्पद्यते ? उपचारस्य विवक्षितत्वाददोषः । यथाहि, शिशुरयं मातरं भक्षयित्वोपजात इति । अतएवाक्षाश्रितं कार्यमिति, [तत्त्वेन] तज्10 ज्ञानमिति । इन्द्रियरूपादिश्चेन्द्रियाश्रितो न च ज्ञानमिति । नन्वेवमपि संशयज्ञानञ्चाक्षं प्रतीत्योत्पद्यत इत्यतिप्रसङ्गः ? तन्न, विद्यासामान्यलक्षणानुवृत्तिस्तु विशेषलक्षणेऽनुक्तेऽपि लभ्यत इति । वक्ष्यति च 'यदवितथमव्यपदेश्यं ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणमिति । न वितथमवि तथमित्यनेन विपर्ययसंशयज्ञानयोगुंदासः । वितथं हि संशयज्ञानं विपर्यय15 ज्ञानञ्चेति । अन्ये तु प्रतितन्त्रन्यायेन व्यवसायात्मकपदमनुवर्तनीयमिति मन्यन्ते । अव्यपदेश्यमिति, व्यपदेशः शब्दस्तस्येदं व्यपदेश्यम्, न व्यपदेश्यमव्यपदेश्यम् अशब्दजन्यं ज्ञानमिति । नन्वक्षं प्राप्य नोत्पद्यते शाब्दज्ञानमित्यनेनैव व्यवच्छिन्नम् ? न, इन्द्रियसहकारिणा शब्देन यज्जन्यते तस्य व्यवच्छेदार्थ20 त्वात् । तथाहि, अकृतसमयो रूपं पश्यन्नपि चक्षुषा रूपमिति न जानीते, रूपमिति शब्दोच्चारणानन्तरं प्रतिपद्यत इत्युभयजं ज्ञानम् । नन् च शब्देन्द्रिययोरेकस्मिन्नेव काले व्यापारासम्भवादयुक्तमेतत् । तथाहि, मनसाघिष्ठितन्तु श्रोत्रं शब्दं गृह्णाति, पुनः क्रियाक्रमेण चक्षुषा सम्बन्धे सति रूपग्रहणम् । न च शब्दज्ञानस्यैतावत्कालमवस्थानं सम्भवतीति कथमु25 भयजं ज्ञानम् ? अत्रैका श्रोत्रसम्बद्धे मनसि क्रियोत्पन्ना विभागमारभते, विभागाच्च यदैव संयोगस्य विनश्यत्ता तदैव शब्दज्ञानस्योत्पद्यमानता, ततः For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy