________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम
१७५ समयवशेनार्थप्रतिपादकत्वाद् उपपन्नम् अनुमानादर्थान्तरत्वे सति प्रामाण्यमिति ।
प्रसिद्धाभिनयस्य चेष्टया प्रतिपत्तिदर्शनात तदप्यनमानमेव
अथ चेष्टाप्रमाणान्तरमिति केचित्, तनिषेधार्थमाह * प्रसिद्धाभिनयस्य चेष्टया प्रतिपत्तिदर्शनात् तदप्यनुमानमेव * प्रसिद्धोऽभिनयश्चेष्टा कायिको 5 व्यापारोऽर्थविशेषाविनाभूतो यस्यासौ तथोक्तः, तस्य चेष्टया अर्थविशेषे प्रतिपत्तिः । यथा मुखाञ्जलिसंये गाद् विशिष्टात् पिपासाप्रतिपत्तिः, तस्य तया पूर्वमविनाभावोपलब्धेः । तथा च, अयं पिपासान्वितः, विशिष्टमुखाञ्जलिसंयोगवत्त्वात्, तदन्यैवंविधदेवदत्तवत् । अतः पक्षधर्मत्वादिबलेन गमकत्वाद् एतदप्यनुमानमेवेति । एवमन्यापि चेष्टा नाट्यशास्त्रप्रसिद्धा अनुमानेऽन्त- 10 विनीयेति।
आप्तेनाप्रसिद्धगवयस्य गवा गवयप्रतिपादनादुपमानमाप्तवचनमेव ।
अथोपमानं प्रमाणान्तरमिति केचित्, तनिषेधार्थमाह * आप्तेनाप्रसिद्धगवयस्य गवा गवयप्रतिपादनाद् उपमानमाप्तवचनमेव * इति । आप्तेन प्रसिद्धगोगवयसारूप्येण[अ]प्रसिद्धगवयस्य गवा गवयप्रतिपाद- 15 नादिति । यथा गौरेवं गवय इत्युपमानमिष्टम् । तद् आप्तवचनमेव न प्रमाणान्तरमिति । न चास्य उपमारूपत्वात् प्रमाणान्तरत्वम्, विध्यर्थवादादिभेदेनापि प्रमाणानन्त्यप्रसङ्गात् । अथ सत्यप्यवान्तरभेदे नामीषाम् आप्तोपदेशाद् भेदः, तदुपमानेऽपि समानम् ।
अथ वाक्यादुपलब्धसादृश्यस्याटव्यामटतो गवयार्थिनो मदीया गौरनेन 20 सदृशीति ज्ञानमुपमानम्, असदेतत्, फलाभावात् । अज्ञाननिवृत्तिः फलमित्युक्तम्, निवृत्तेः प्रध्वंसत्वात् । तथाहि, यदि ज्ञानानुत्पत्तिः, विपरीतं वा ज्ञानमज्ञानम् उभयथापि तन्निवृत्तिः प्रध्वंस एव । प्रमाजनकञ्च प्रमाणम् । न च हेयादिबुद्धयः फलम्, तदपाये सति कालान्तरेण सुखदुःखादिविनिश्चयानन्तरमुत्पत्तेः । न च सादृश्यस्य प्रमेयत्वम्, तज्ज्ञानस्याफलत्वात् । अभ्यु- 25 पगमे वा अन्यत् प्रमाणं वाच्यमिति ।
For Private And Personal Use Only