________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधयंप्रकरणम
२६७
निश्चीयते । स चेच्छानुविधानात् तत्पूर्वकप्रयत्नजनितक्रियाकार्य इति । सुप्तस्य तु यन्मनसो निरिन्द्रियात्मप्रदेशे प्रलीनस्य इन्द्रियान्तरसम्बन्धार्थ प्रबोधकाले कर्म तदात्ममनसोः संयोगादसमवायिकारणाज्जीवनपूर्वकप्रयत्नापेक्षादुपजायते। तथाहि सुप्तस्य मनःक्रिया, प्रयत्नकार्या, परिगृहीतान्तःकरणक्रियात्वात्, जाग्रदवस्थायां तक्रियावत् । अपसर्पणकर्मोपसर्पणकर्म । चात्ममनसोः संयोगादसमवायिकारणाददृष्टापेक्षादुत्पद्यत इति । मृतशरीराद् विभागार्थं कर्म अपसर्पणम्, गर्भशरीरेण संयोगार्थम् उपसर्पणमिति । कदा पुनस्तदपसर्पणम्, कथं भवतीत्याह यदा जीवनसहकारिणोरित्यादि । जीवनं व्याख्यातम् । तत्सहकारिणोर्धर्माधर्मयोरुपभोगात् सुखदुःखसंवेदनात् प्रक्षयस्तदा तेन शरीरेण भोक्तव्यस्य कर्मणोऽभावाच्छरीरान्तरोपभोगसम्पादककर्म- 10 सद्भावेऽपि शरीरस्य पात एव । अन्योन्याभिभवो वेति सम्भाविनः पक्षान्तरस्योपन्यासः । तथाहि शरीरान्तरोपभोगदायकेन बलीयसा परिपक्वेन कर्मणा आरब्धशरीरस्योपभोगदायकत्वेन अभिप्रवृत्तस्य कर्मणोऽभिभवो भोगदानसामर्थ्यापगमस्तीवशब्दोपलम्भन मन्दस्याग्रहणमिवेति । ततो जीवनसहायस्य कर्मणो वैकल्ये सति तत्पूर्वकस्य प्रयत्नस्य वैकल्याच्च प्राणनिरोधः, 15 तन्निरोधे सति अन्याभ्यां वृत्तिलब्धधर्माधर्माभ्यामिति। वृत्तिः सहकारिकारणम्, तया लब्धौ तत्सहकृतौ यो धर्माधौ ताभ्यामात्ममनःसंयोगसहकारिभ्यां मृतशरीराद् विभागकारणम् अपसर्पणकर्मोत्पद्यते। ततस्तस्माच्छरीराद् बहिरपगतं ताभ्यामेव धर्माधर्माभ्यां सम्पादितं यद् आतिवाहिकं सूक्ष्मशरोरम्, तेनाभिसम्बद्धयते । तत्सङ्क्रान्तश्च स्वर्ग नरकं वा गच्छति, गत्वा चाशयानु- 20 रूपेण शरीरेण संयुज्यते, तत्संयोगार्थ कर्म उपसर्पणाख्यमिति । आतिवाहिकशरीरं चागमबलादभ्युपगतम्, अन्तःकरणस्य परिगृहीतत्वादिति। तथा न केवलमेतद् अदृष्टाद् भवति, योगिनाञ्च बहिरुद्रचितस्येति । बहिर्देशैरुद्रेचितस्य मनसोऽभिप्रेतदेशगमनं पुन: पुन: प्रत्यागमनञ्च । तथा सर्गकाले प्रत्यग्रेण शरीरेण सम्बन्धार्थ कर्म अदृष्टकारितमिति । न केवलमेतद् अन्यदपि 25 च महाभूतेषु यत् कर्म । कि विशिष्टम् ? प्रत्यक्षानुमानाभ्यामनुपलभ्यमानकारणम् उपकारापकारसमर्थमित्यर्थः । तदपि अदृष्टकारितम् । तदेवाह,
For Private And Personal Use Only