________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
व्योमवत्या
यथा सर्गादौ सृष्टयादावणुषु कर्म शरीरादिसम्पादनार्थम्, अग्निवाय्वोरूर्ध्वतिर्यग्गमने इति । अग्नेरूद्धज्वलनं वायोस्तिर्यग्गमनं प्राणिनामुपकारापकारसमर्थमिति । महाभूतानां भूगोलकदेवकुलादीनां प्रक्षोभणं तत्कम्पनं
मणीनां तस्करं चौरं प्रति गमनम्, अयसो लोहस्यायस्कान्ताभिमुखतया 5 अभिसर्पणञ्चेति ।
॥ इति श्रीव्योमशिवाचार्यविरचितायां पदार्थसङ्ग्रहटीकायां कर्मपदार्थः समाप्तः॥
॥ अथ सामान्यपदार्थनिरूपणम् ॥ सामान्यं द्विविधम, परमपरञ्च। स्वविषयसर्वगतमभेदात्मकमनेकवृत्ति एकद्विबहुव्वात्मस्वरूपानु गमप्रत्ययकारि स्वरूपाभेदेनाधारेषु 10 प्रबन्धेन वर्तमानमनुवृत्तिप्रत्ययकारणम् । कथम् १ प्रतिपिण्ड सामान्या
पेक्ष प्रबन्धेन ज्ञानोत्पत्तावभ्यासप्रत्ययजनिताच्च संस्कारादतीतज्ञानप्रबन्धप्रत्यवेक्षणाद् यदनुगतमस्ति तत् सामान्यमिति ।
अथ सामान्यस्य लक्षणपरीक्षार्थं परमपरञ्च द्विविधं सामान्यमित्यादिप्रकरणम् । अत्र च पूर्व विभागस्याभिधानादनियमज्ञापनेन कार्यकारणभावा15 शङ्काव्युदासः सामान्यलक्षणविभागयोः, यथा द्रव्यं पृथिव्यप्तेज इत्यादि प्रयोजनमित्युपदर्शयति । स्वविषयसर्वगतमिति विप्रतिपत्तिव्युदासः ।
तथाहि परे मन्यन्ते सर्व सामान्यं सर्वगतम् । गोत्वमश्वपिण्डेष्वप्यस्ति, अश्वत्वञ्च गोपिण्डादिष्वपीति । अनुपलम्भस्तु व्यञ्जकाभावात् । यत्र च व्यञ्जकसद्भावस्तत्राभिव्यक्तिः, यथा गोपिण्डेषु गोत्वस्याश्वपिण्डेऽश्वत्वस्येति ।
तच्चासत् । गोत्वस्याश्वादिपिण्डेष सदभावे प्रमाणाभावाद । व्यवस्थिते हि सद्भावेऽभिव्यञ्जकाभावाद् अनुपलब्धिः कल्प्यते । अथ सामान्यं सर्वैः सम्बध्यते, व्यापकत्वादाकाशवदित्य स्ति?त्र किं]प्रमाणम् । तत्र सर्वैः समवाये साध्ये साध्यविकलमुदाहरणम्, आकाशस्य सर्वत्र समवायाभावात् । संयोगित्वे तु साध्ये सामान्यस्य द्रव्यरूपताप्रसङ्गः । न चैतद्युक्तम् । गुणकर्मसु
20
For Private And Personal Use Only