SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सामान्यवैधयंप्रकरणम् समवेतस्योपलम्भाद् । द्रव्यस्य च द्रव्य एव संयोगो नान्यत्रेति, तथा युतसिद्धयभावाच्च । युतसिद्धानाञ्च संयोग इति । अथ सामान्येन सम्बन्धमात्रं साध्यते ? तत्रापि सिद्धसाधनम्, स्वाधारेण संयुक्तसंयोगस्य सर्वत्र सद्भावात् । तथाहि गोत्वाधारेण संयुक्तमाकाशादि तेन च संयुक्तं सर्वमूर्त्तमिति । एवं व्यापकत्वमपि यदि सर्वैः संयोगित्वम्, तदसिद्धम् । पक्षे तदेव हि सर्वगतत्व- 5 मिति साध्येनाविशेष एव । तथा आकाशादेापकत्वेऽपि न सर्वैः सम्बन्ध इत्यनेकान्तः । अथ सर्वैः सम्बन्धः साध्यते सर्वत्र सन्निहितत्वादिति हेतुना ? तदप्यसत् । आकाशादेस्तभावे गुणकर्मादिना सम्बन्धाभावात् । न च विशिष्ट सम्बन्धानभ्युपगमे भावस्य अन्यसान्निध्यं पश्यामः । अतः स्वविषयसर्वगतमेव सामान्यम् । गोत्वं गोपिण्डेष्वेवाश्वत्वमश्वपिण्डेष्वेव, तत्रैवोप- 10 लम्भात् । अभेदात्मकमनेकवृत्तीति लक्षणं दर्शयति अभेदात्मकमेकस्वभावम् । अनेकत्र वृत्तिर्यस्य तदनेकवृत्तीति । एकत्वे सत्यनेकत्र वर्तमानत्वात् सामान्यम्; तथापि अवयविसंख्यादिभिर्व्यभिचारपरिहारार्थं नित्यत्वे सतीति विशेषणमर्थाद् व्याख्येयम् । तथापि सलिलादिपरमाणुरूपादयो नित्याश्चा- 15 नेकत्र वर्तन्ते, तदर्थमेकत्वे सतीति विशेषणम् । ते तु अनेकत्वे सत्यनेकत्र वर्तन्ते इति । तथापि एकत्वे नित्यत्वे च सत्यनेकत्र वर्त्तते समवायः, तदर्थं स्वव्यतिरिक्तया वृत्त्या वर्तमानत्वे सतीति च विशेषणमध्याहार्यम् । सर्वमत्रैव वाक्ये लभ्यते अध्याहारो न कार्य इति चान्ये । तथाहि न विद्यते भेदो नानात्वं विनाशश्च यस्येति तथोक्तम्, तदेवात्मा स्वरूपमस्येति 20 अभेदात्मकमेकमविनाशि चेति लभ्यते । अनेकत्र वृत्तिर्यस्य इति बहुव्रीहिणा वृत्तेर्वृत्तिमतो भेदाऽप्युपर्शित एव । तस्मादेकत्वे नित्यत्वे च सति समवायेन अनेकत्र वर्तमानत्वात् सामान्यमितरस्माद् भिद्यते । नन्वाश्रयासिद्धमेतल्लक्षणम्, सामान्यसद्भावे प्रमाणाभावात् । यच्चानुगतज्ञानं न तत् सामान्यसत्तां दर्शयति, कल्पनाज्ञानत्वात् । तथा चानादि- 25 वासनावशादनुगतज्ञानमुत्पद्यते, न पुनर्वास्तवं सामान्यमस्ति । तदुक्तम् For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy