________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
व्योमवत्यां
ऽतिप्रसङ्गात् । तस्मात् संयोगस्य प्रदेशवृत्तित्वमाश्रयाव्यापकत्वमित्यवयवेनावयविना च संयोगो धटत एव ।
न च प्राक्तनस्य मूलप्रदेशे वृक्षेण संयोगस्यावस्थाने सत्युत्तरसंयोगेन शक्यं भवितुमिति तद्विनाशको विभागोऽपि सिद्धः । यथा चात्र वृक्षापरित्यागेनैव पुरुषस्यान्यतरकर्मजाः संयोगा विभागाश्च भवन्ति तद्वदाकाशापरित्यागेनैव परमाणोः संयोगा विभागाश्च भविष्यन्तीति व्यापकत्वमतन्त्रम् ।
तदेवं परमाण्वाकाशादिसंयोगस्योत्पत्तिविनाशकारणोपपत्ते जत्वमिति । यच्च सूत्रकारस्यावचनं व्यामोहादपि सम्भवतीत्युक्तम्, तदसत्,
तदभिहितानां पदार्थानां प्रमाणान्तरेणापि तथाभावोपलब्धेः सम्यग्ज्ञानसिद्धौ 10 तद्विरुद्धस्य मिथ्याज्ञानस्य निवृत्तेः ।
अथ विभूनां परस्परतः संयोगो भविष्यतीति । तथा ह्याकाशम् आत्मादिना संयुज्यते, मूर्तसंयोगित्वात्, घटवत् । अस्य प्रतिषेधार्थमाह विभूनान्तु परस्परतः संयोगो नास्ति, युतसिद्ध्यभावात् । यत्र यत्र संयोगस्तत्र तत्र
युतसिद्धिरुपलब्धा । सा च संयोगस्य व्यापिका व्यावर्तमाना स्वव्याप्तं संयोगं 15 गृहीत्वा व्यावर्तत इत्यन्यथासिद्धं साधनम् ।
*सा पुनः* युतसिद्धिः । *द्वयोरन्यतरस्य वा पृथगगतिमत्त्वं युताश्रयसमवायित्वञ्चेति । द्वयोः पृथग्गतिमत्त्वमन्यतरस्य वेति, इयं नित्यानां युतसिद्धिः । द्वयोर्युताश्रयसमवायित्वमन्यतरस्य वेति, अनित्यानाम् । अस्यास्तु
विस्तरेण विचारो विभागावसरे द्रष्टव्यः । न च विभूनां पृथगगतिमत्वम20 मूर्त्तत्वात् । युताश्रयसमवायित्वमपि न सम्भवत्येवाकार्यत्वादिति । संयोगविनाशप्रकारः
विनाशस्तु सर्वस्य संयोगस्यैकार्थसमवेताद् विभागात, क्वचिद आश्रयविनाशादपि । कथम् ? यदा तन्त्वोः सयोगे सत्यन्यतरतन्त्वा
रम्भकेंऽशौ कर्मोत्पद्यते, तेन कर्मणा अंश्वन्तराद् विभागः क्रियते, विभा25 गाच्च तन्त्वारम्भकसंयोगविनाशः, संयोगविनाशात् तन्तुविनाशः, तद्
विनाशे तदाश्रितस्थ तन्त्वन्तरसंयोगस्य विनाश इति ।
For Private And Personal Use Only