________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
करणम्
Acharya Shri Kailassagarsuri Gyanmandir
७३
ब्रवीत्, तस्मान्नास्त्यजः संयोगः * । प्रतिज्ञातञ्च महर्षिणा यद्भावरूपं तत्सर्वमभिधास्यामीति ।
5
ननु चात्र अजः संयोगो नास्तीति प्रतिज्ञावाक्ये पदयोर्व्याघातः, यथेदञ्च नास्ति चेति । न । अन्यथा प्रतिज्ञानात् । तथा हि परमाणुभिराकाशादीनां संयोगो नित्यत्वेनाभ्युपगतः परेण, तस्याजत्वमेव निषिध्यते, न सद्भावः । परमाणुभिराकाशादीनां संयोगोऽजो न भवति, सर्वज्ञेन महर्षिणा अजातत्वेन पृथगप्रतिपाद्यमानत्वात् । यच्च अजं तदजत्वेन पृथगुपदिष्टं यथा 'नित्यं पारिमाण्डल्यम्' इति ।
अथ संयोगस्याप्राप्तिविरोधित्वम्, तत्तु न सम्भवत्येव, आकाशादेविभुत्वेन तत्परित्यागानुपपत्तेः । न चाश्रयविनाशाद् विनाशोऽत्र, आश्रयस्यापि 10 नित्यत्वात् । न चान्यद् विनाशकारणमस्तीत्यजत्वमेव । अवचनन्तु व्यामोहादपि सम्भवतीत्यन्यथासिद्धम् । अस्य प्रतिषेधार्थमाह * परमाणुभिराकाशादीनां प्रदेशवृत्तिरन्यतरकर्मजः संयोगः * इति । कथमाकाशापरित्यागेन परमाणोः संयोगा विभागाश्च भवन्तीति चेत् ? यथा वृक्षापरित्यागेन देवदत्तस्य । तथा हि, मूलप्रदेशादूर्ध्वं प्रदेशमारोहतः पुरुषस्य वृक्षापरित्यागेनैव संयोगा विभागाश्चोपलभ्यन्ते, 'मूलप्रदेशे वृक्षेण संयुक्तः, मध्यप्रदेशे, अग्रप्रदेशे ' चेति । न च प्रदेशस्यैव ते संयोगाः, 'वृक्षेण संयुक्त:' इति प्रत्ययोपलम्भात् । प्रदेशेनैव संयोगे 'प्रदेशेन संयुक्तो न वृक्षेण' इति ज्ञानं स्यात् । न चैतदस्ति । 'वृक्षेण संयुक्त:' इति ज्ञानस्य सर्वस्यामवस्थायामुपलब्धेः ।
For Private And Personal Use Only
15
यदि च संयोगस्य प्रदेशवृत्तित्वात् प्रदेशेनैव संयोगो न वृक्षेणेति, तहि 20 तेऽपि प्रदेशाः स्वावयवापेक्षया अवयविन इति तत्प्रदेशानां संयोग:, तेषामप्यवयवित्वात् प्रदेशानामिति तावद् यावन्निर्देशाः परमाणवः । तेषाञ्च निष्प्रदेशत्वात् संयोगाभावेन द्व्यणुकादिप्रक्रमेण कार्यमिति क्षित्यादेरसम्भव एव ।
अथ निष्प्रदेशत्वेऽपि सति परमाणूनां प्रदेशत्वाद् इष्यत एव संयोगस्तह द्व्यणुकानां संयोगाभावे न त्र्यणुकमिति दूषणं तदवस्थमेव । न च परमाणुषु 25 वर्तमानः संयोगो द्व्यणुकादिसमवेतं द्रव्यमारभते, व्यधिकरणस्यारम्भकत्वे
१०