SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७५ गुणवैधयंप्रकरणम् विनाशस्य च सहेतुकत्वात् कुतः संयोगो विनश्यतीत्याह * विनाशस्तु सर्वस्य संयोगस्यैकार्थसमवेताद् विभागात् * इति । ययोरेव संयोगस्तयोरेव विभागात संयोगस्य विनाशः, तेन सता तस्यानुपलब्धः । [ अत्र क्वचिदाश्रयविनाशादपि' इत्यादिः 'तन्त्वारम्भक संयोगविनाश इति' इत्यन्तस्य प्रशस्तपादीयग्रन्थस्य व्याख्या न दृश्यतेऽतोऽनुमीयते ग्रन्थः पतित इति] 5 संयोगविनाशा त् तन्तुविनाशः] तन्तुविनाशे तदाश्रितस्य [तन्त्वन्तर संयोगस्य विनाश इति । यदा तन्तुसंयोगविनाशसमकालं तन्त्वन्तरेऽपि कर्म सम्भाव्यते तदा आश्रयविनाशविभागाभ्यामपि संयोगस्य विनाश इति ज्ञेयम् । विभागवैधर्म्यम् विभागो विभक्तप्रत्यनिमित्तम्, शब्दविभागहेतुश्च । . 10 इदानी विभागस्य लक्षणपरीक्षणार्थम् * विभागो विभक्तप्रत्यनिमित्तम् * इत्यादि प्रकरणम् । प्रतीतिः, प्रत्ययो, ज्ञानम्, प्रतीयतेऽनेनेति प्रत्ययोऽभिधानम् । तद्धेतुत्वमन्येषामपीति विभक्तग्रहणम् । तथाप्याकाशात्मभ्यां व्यभिचारपरिहारार्थं द्रव्य विशेषणत्वे सतीति द्रष्टव्यम् । तथाहि, विभागः, इतरेभ्योभिद्यते, द्रव्यविशेषणत्वे सति विभक्तप्रत्ययनिमित्तत्वात्, यस्तु न भिद्यते 15 न चासावेवम्, यथा रूपादिरिति । तथा विभक्तप्रत्ययो विशेष्यज्ञानत्वान्नर्ते विशेषणाद् भवतीति परीक्षापरं वाक्यम् । न चास्य वासनाप्रभवत्वम्, तस्याः पूर्वमेव प्रतिषेधात् । विरलदेशोत्पादश्च क्षणभङ्गनिषेधादेव निषिद्धः । . ___ अथ संयोगस्यानुत्पादे विनाशे च विभक्तव्यवहारान्नान्यो विभाग इति चेत, न, विभागं विना संयोगविनाशस्यैवाभावात् । तथा हि गुणानामाश्रय- 20 विनाशाद् विरोधिगुणप्रादुर्भावाच्च विनाशोपलब्धेः, यत्राश्रयविनाशस्तत्र संयोगस्याविनाशान्न विभक्तप्रत्ययः स्यात्, दृष्टश्च संयोगविनाशस्तेन कर्मणो गुणविनाशे सामर्थ्यादर्शनात्, अन्यस्य विनाशहेतोरभावाद् विभागोऽभ्युपगन्तव्यः । संयोगाभावे च भाक्तो विभक्त प्रत्यय इति । __अर्थक्रियामाह * शब्दविभागहेतुश्च । वंशदलविभागाच्छब्दोत्पत्तिः, 25 विभागाञ्च विभागोत्पत्तिरिति वक्ष्यामः । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy