________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
व्योमवत्यां अथ कथंलक्षणः कतिविधिश्चेति वाक्यमिहापि सम्बध्यत इति ज्ञेयम्, पूर्ववत् प्रतिसमाधानात् ।
प्राप्तिपूविका अप्राप्तिविभागः । स च त्रिविधः। अन्यतरकर्मज उभयकर्मजो विभागजश्च विभाग इति। तत्रान्यतरकर्मजोभयकर्मजौ 5 संयोगवत् । विभागजस्तु द्विविधा, कारणविभागात् कारणाकारणविभागाच्च ।
लक्षणमाह * प्राप्तिपूर्विका अप्राप्तिविभाग * । प्राप्तिः संयोगः पूर्व यस्याः सा तत्पूविका, अप्राप्तिविभागः। संयोगानुत्पत्तिश्चाप्राप्तिर्न च प्राप्तिपूविकेति ।
अथ प्राप्तेः पूर्वकालत्वात् किं कारणत्वम्, सति भावो वा ? सति भावमात्रम्, न तु कारणत्वमिति केचित् । तत्तु न बुध्यामहे । क्रियावदन्वयव्यतिरेकाभ्यां विभागजन्मनि संयोगस्यापि व्यापारोपलब्धेः । न हि क्रियावत्संयोगाभावे विभागो भवति, तद्भावे तु भवतीति । न चान्वयव्यतिरेकिणः
संयोगस्य विभागकारणत्वे किञ्चिद् बाधकमस्ति, यस्य भयादकारणत्वमिष्येत । 15 स्वकार्यविरोधित्वन्तु गुणानामिष्टं शब्दादौ । प्रत्यासन्नश्च संयोगो विभागोत्प
तावित्यसमवायिकारणम् । यथोक्ता चाप्राप्तिविभाग इति लक्षणे संयोगवदाक्षेपप्रतिसमाधानम् ।
___ *स च चिविधः एव । * अन्यतरकर्मज उभयकर्मजो विभागजश्च विभाग * इति । * तत्रान्यतरकर्मजोभयकर्मजौ संयोगवत् * इति । एतेन 20 कर्मणा विभागेन च विभागो जन्यते, यथा स्थाणोः श्येनेनेति । अत्र हि
श्येनावयविनि स्थाणुना तच्चरणविभागसमकालं कर्मसञ्चिन्तनाद् उभयोः प्रत्यासन्नत्वे सति व्यापारः सम्भवतीति चिन्तनीयम् । विभूनाञ्च भूर्तेरिति केवलैककर्मजः । तथा द्वाभ्यां कर्मभ्यां विभागैश्च विभागो जन्यते । यथा
मल्लयोर्मेषयोर्वेति । यथा हि मेषशिरसि कर्मोत्पन्नं शिरोऽन्तराद् विभाग 25 करोति एवं तदवयविनापि इत्यवयवावयविविभागत्रयमवयविविभागोत्पत्तौ
प्रत्यासन्नत्वे सति सामर्थ्यावधारणात् कारणमिति । तथा विभागरहिताभ्यां विभागो जन्यते, यथा परमाण्वोरित्यतिदेशार्थः ।
For Private And Personal Use Only