SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७ गुणवैधयंप्रकरणम् विभागजस्तु व्याख्यायते । एतद् द्विविधं कारणभेदादित्याह * कारणविभागात् कारणाकारणविभागाच्च * इति । नन्वनेकस्मादपि कारणादेकं कार्यमुत्पद्यमानं दृष्टमिति न कारणभेदाद् भेदो युक्तः, तन्न, सामग्रीभेदस्य विवक्षितत्वात् । तथा टेका कारणविभागोपलक्षिता, अन्या तु कारणाकारणविभागोपलक्षिता सामग्रीति, तद्भेदाञ्च विभागस्य भेदो घटत एव, 5 सामग्रीभेदेन कार्यस्य घटादेर्भेददर्शनात्, विरुद्धधर्माधिकरणत्वाच्च विभिन्नप्रतिभासविषयत्वात् । तथाहि, कारणविभागपूर्वको विभागः सक्रियस्यैव, कारणाकारणविभागपूर्वकस्तु निष्क्रियस्यैवेति । तथा कारणविभागपूर्वको विभागः शब्दमारभते, कारणाकारणविभागपूर्वको विभागो विभागमेवेति धर्मभेदः । तद् भेदाच्चान्यत्र भेदोपलब्धेरिहापि भेदोऽवश्यम्भावी। 10 तत्र कारणविभागात् तावत् कार्याविष्टे कारणे कर्मोत्पन्न यदा तस्यावयवान्तराद् विभागं करोति न तदा आकाशविदेशात् । यवा तु आकाशादिदेशाद् विभागं करोति न तदा अवयवान्तरादिति स्थितिः । अतोऽवयवकर्म अवयवान्तरादेव विभागमारभते, ततो विभागाचच द्रव्यारम्भकसंयोगविनाशः, तस्मिन् विनष्टे कारणाभावात् कार्या- 15 भाव इत्यवयविविनाशः । तदा कारणयोर्वर्तमानो विभागः कार्यविनाशविशिष्टं कालं स्वतन्त्रं वावयवमपेक्ष्य सक्रियस्यैवावयवस्य कार्यसंयुक्तादाकाशादिदेशाद् विभागमारभते, न निष्क्रियस्य, कारणाभावात, उत्तरसंयोगानुत्पत्तावनुपभोग्यत्वप्रसङ्गः। न तु तदवयवकर्म आकाशादिदेशाद् विभागं करोति, तदारम्भ- 20 कालातीतत्वात् । प्रदेशान्तरसंयोगन्तु करोत्येव, अकृतसंयोगस्य कर्मणः कालात्ययाभावादिति । कारणविभागात् तावद् विभागमाह * कार्याविष्टे * इत्यादिना । कार्येणाविष्टं व्याप्तमारब्धकार्यमिति यावत्, तस्मिन्, * कारणे कर्मोत्पन्नम् - न कारणमात्रे । यदा * अवयवान्तराद् विभागम् + द्रव्यारम्भकसंयोगविरो- 25 धिनम् । * करोति न तदा आकाशादिदेशात् *। * यदा तु आकाशादि देशात्, For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy