________________
Shri Mahavir Jain Aradhana Kendra
5
10
३०
15
www.kobatirth.org
व्योमवत्यां
तथा द्व्यणुकविनाशसमकालं द्वितीयपरमाणौ कर्मसञ्चिन्तनात् षट्क्षणा पाकजोत्पत्तिः । तथा श्यामादिनिवृत्ति समकालं कर्मचिन्तायां सप्तक्षणा । रक्ताद्य त्पत्तिसमकालं [कर्मचिन्तनात् ] अष्टक्षणा । तदनन्तरञ्च [कर्मचिन्तायां ] नवक्षणा इत्यादि चिन्त्यम् ।
तत्रादौ द्व्यणुकानि पक्वापक्वैरपि परमाणुभिरारभ्यन्त इति पक्वापक्वान्युत्पद्यन्ते । ततस्तैस्त्र्यणुकमित्यादिप्रक्रमेण घटस्य पक्वापक्वस्योत्पादः । ततः पुनरनुत्पन्नपाकजेषु क्रियादिक्रमेण द्रव्यविनाशे स्वतन्त्रेषु परमाणुषु रक्ताद्युत्पत्तिः । ततः पुनः क्रियाक्रमेण उत्तरसंयोगोत्पत्तौ द्व्यणुकान्युत्पद्यन्ते । तत्र च कारणगुणपूर्वप्रक्रमेण पक्वेष्वेव रूपाद्युत्पद्यते । तैस्त्र्यणुकं पक्वमेवारभ्यते । पुनद्व्यणुकान्तरेष्वप्येवमेव क्रमेण रूपाद्युत्पत्तिः, ततस्त्र्यणुकादेरिति वाच्यम्, यावद् घटे विशिष्टरूपाद्य त्पत्तिरिति ।
नन्वग्निसम्बन्धस्यापि शेषाद् अनुत्पन्नपाकजेष्विव परमाणुत्पन्नपाकजेष्वपि क्रिया किमिति नेष्यते ? घटादेरनुत्पत्तिप्रसङ्गात् । यदि च परमाणुपूत्पन्नपाकजेषु आरब्धकार्येषु क्रिया स्यात्, प्रतिक्षण मुत्पत्त्यनन्तरं व्यणुकादिविनाशे घटादेरुत्पत्तिर्न स्यात् ।
अथ सर्वेषां परमाणूनां पाके सति द्व्यणुकादिप्रक्रमेण घटाद्युत्पद्यत 20 इति मनुषे, तदसत् । उपरि स्थापितानां कर्पूरादीनां पातप्रसङ्गात्, परमाणूनां धारणसामर्थ्याभावात् । न चैतदस्ति । तस्मात् कार्योत्पत्त्यन्यथानुपपत्त्या ज्ञायते, अनुत्पन्नपाकजेष्वेव क्रियोत्पद्यते नोत्पन्नपाकजेषु, उपभोगप्रापकादृष्टस्य नियामकत्वादित्यलमतिविस्तरेण ।
Acharya Shri Kailassagarsuri Gyanmandir
कस्योत्पादः, रक्तादीनामुत्पद्यमानतेत्येषामेकः कालः ।
(५) ततो द्व्यणुकोत्पत्त्यनन्तरं पञ्चमे क्षणे कारणगुणपूर्वप्रक्रमेण रूपाद्युत्पत्तिरिति ।
अथ द्व्यणुकत्र्यणुकादीनां पक्वापक्वानामुत्पादपूर्वं पुनः पक्वानामेवेति 25 कल्पनायां किं प्रमाणम् ? कार्यस्य तथादर्शनमेव । तथाहि घटादिकार्यमादौ पक्वापक्वमुपलभ्यते, पुनः पक्वमेवेति कारणकारणेष्वप्यनुमेयः । अत्र च प्रयोगः, द्व्यणुकमादौ पक्वापक्वमुत्पद्यते, महतः पार्थिवद्रव्यस्यारम्भकत्वात्,
For Private And Personal Use Only