________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
गुणसामान्यसाधर्म्यम् अत एव निष्क्रियत्वं मूर्त्यनुविधानात् क्रियायाः । सा च गुणेषु न सम्भवति निर्गुणत्वात् । असर्वगतद्रव्यपरिमाणञ्च मूत्तिरिति ।।
अथाश्रयगमनेन गुणेषु गमनप्रतिभासस्तहि कथम् ? मुख्य बाधकोपपत्तेरुपचारेण । द्रव्ये हि वर्तमानं गमनमेकार्थसमवायितया गुणेष्वारोप्य प्रतिपद्यन्ते गुणा गच्छन्तीति ।
तदेवं निष्क्रियत्वादगुणवत्त्वाच्च द्रव्याद् अर्थान्तरं रूपमिति । अथार्थान्तरत्वे कथं नियतेन धर्मिणा व्यपदेशः ? सम्बन्धनियमात् । न च सम्बन्धस्य सम्बन्धान्तरपरिकल्पना सम्बन्धरूपत्वादेवेति वक्ष्यामः समवायपदार्थे। केषाञ्चिदेव मूर्त्तगुणत्वम्
रूपरसगन्धस्पर्शपरत्वापरत्वगुरुत्वद्वत्वस्नेहवेगा मूर्तगुणाः ।
अथेदानी प्रतिनियतानां स्वभेदान्तराद् व्यावृत्तं साधर्म्य दर्शयति रूपादयो वेगान्ता मूर्तगुणा इति । मूर्तानामेव, नत्वेत एव मूर्तानाम्, अन्येषामपि तद्गुणत्वात् । तथाहि, पृथिव्यादिषु त्रिषु रूपद्रवत्वादयः, गुरुत्वरसौ तु द्वयोः, स्पर्शश्चतुर्णाम्, गन्धः क्षितावेव, स्नेहो]ऽम्भस्येव, परत्वापरत्व- 15 वेगास्तु पञ्चस्वपि मूर्तेष्विति । केषाञ्चिच्चामूर्तगुणत्वम्
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नध धर्मभावनाशब्दा अमूर्तगुणाः ।
बुद्ध्यादयः शब्दान्तास्त्वमूर्तगुणा इति । अमूर्तानामेव गुणाः, नत्वेत एव, संख्यादीनामपि तद्गुणत्वात् । बुद्ध्यादयो भावनान्ताः पुरुष, 20 शब्दरचाकाश इति । केचिन्मूर्तामूर्तोभयगुणाः
संख्यापरिमाणपृथक्त्वसंयोगविभागा उभयगुणाः । संख्यादयो विभागान्ता उभयगुणाः । उभयेषां मूर्तामूर्तानामेव गुणाः । तथैत एवोभयगुणाः ।
23
For Private And Personal Use Only