________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्या
गुणेष्वनेकाश्रिताः
संयोगविभागद्वित्वद्विपृथकत्वादयोऽनेकाश्रिताः । अथेदानीम् एकानेकाश्रितत्वं दर्शयन्नाह संयोगविभागद्वित्वद्विपृथक्त्वादयोऽनेकाश्रिताः* इत्यादिपदेन त्रित्वादिका परार्धान्ता संख्या तद्5 विशिष्टञ्च पृथक्त्वं गृह्यते । अनेकाश्रितत्वञ्चात्र व्यक्तयपेक्षया विवक्षितम्, न जात्यपेक्षया, रूपादेरपि तद्भावप्रसङ्गात् ।
यद्यपि रूपत्वादिजातीयमनेकस्मिन् न वर्तते तथापि एका तद्व्यक्तिरेकस्मिन्नेव । न चैवं संयोगादिः, तद्व्यक्तेरनेकाश्रितत्वोपलब्धेः । तद्भिन्नानामेकाश्रितत्वम्
शेषास्त्वेक कद्रव्यवृत्तयः । शेषास्त्वेकैकद्रव्यवृत्तयः इति । उक्तभ्योऽन्ये शेषाः । ते हि एकैकस्मिन्नेव द्रव्ये वर्तन्ते । एका हि व्यक्तिरेकस्मिन्नेव समवेता तथा रसादिव्यक्तयोऽपि । अवधारणन्त्वेषाम् एकैकद्रव्यवृत्तित्वमेव, नत्वेषामेव, उभयवृत्ती
नामपि तद्भावात् । 15 विशेषगुणोद्देशः
रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वबुद्धिसुखदुःखेच्छाद्वेष
प्रयत्नधर्माधर्मभावनाशब्दा वैशेषिकगुणाः । सामान्यगुणोद्देशः संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वनैमि
त्तिकद्रवत्ववेगाः सामान्यगुणाः । इदानीं के विशेषगुणाः, के च सामान्यगुणा इत्युपदर्शनार्थमाह रूपादयः शब्दान्ता वैशेषिकगुणाः ।
कीदृशमेषां विशेषगुणत्वम् ? योकाश्रितत्वं . गुरुत्वादावपि स्यात् । अथैकैकेन्द्रियग्राह्यत्वम् ? स्नेहद्रवत्वधर्माधर्मादौ न स्यात् । अथासाधारणॐ त्वम् ? तन्नास्ति, रूपत्वादिजातीयस्यानेकत्रोपलब्धेः । व्यक्तिविवक्षया ?
गुरुत्वादावप्यस्त्येव । न, अन्यथा तदुपपत्तेः । तथाहि, स्वसमवेतविशेष
For Private And Personal Use Only