________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाकजोत्पत्तिप्रकरणम्
पेक्षया तु बहुवचनम् । बहूनि कार्यद्रव्याण्येव द्रव्यमारभन्ते । द्वित्वसंख्योपेतान्येव च नित्यानि, न तु नित्यान्येव, कार्यद्रव्येऽपि सद्भावात् ।
न चैकस्य क्रमयोगपद्याभ्यामारम्भकत्वम्, एकस्वभावत्वात् । तथा ोकः परमाणु क्रमेण कार्य करोति, समर्थस्य क्षेपायोगात्, युगपत् कृत्वा पुनरकरणे हेत्वभावः ।
न च समानपरिमाणतायां कार्यकारणभावो दृष्ट :, क्षणभङ्गप्रतिषेधात्, कारणविभागाभावादविनाशित्वं कार्यद्रव्यस्य च प्रसज्यते ।
तथा संयोगश्च संयोगौ च संयोगाश्चेति संयोगाः । तेषां द्रव्यं कार्यमिति नित्यापेक्षया संयोगस्यैव कार्यद्रव्ये चानियम इत्यविरोधः ।
तदेवं द्वित्वसंख्योपेताः परमाणवः कार्यद्रव्यमारभन्ते, एकत्वबहुत्वपक्षे 16 बाधक प्रमाणसावे सत्यारम्भकत्वात् । 'द्वित्वन्तु व्यणुकारम्भकः, तन्तु द्वितमवत् । न हि बहुभिस्तन्तुभिद्वितन्तुकमारभ्यते, नाप्येकेनेति सविशेषणस्य हेतोरसभावः ।
अथ व्यणुकानि द्वित्वादिसंख्योपेतानि अनियमेन किमिति कार्यं नारभन्ते ? बाधकोपपत्तेः । तथा हि द्वयोव्यणुकयोरारम्भकत्वेऽणुपरिमाणोत्पत्ता- 15 वेव कारणत्वमस्तीति व्यर्थारम्भप्रसङ्गः ।
न च व्यणुकद्वयस्य कारणपरमाण्वपेक्षया बहुत्वं सम्भवतीति वाच्यम् । (कारणं ?) न, कारणावृत्तिबहुत्वस्य परिमाणोत्पत्तावकारणत्वात् । कारणवृत्ति च बहुत्वं महत्त्वोत्पत्तौ कारणमिति दृष्टम् । अन्यथा हि व्यणुकेऽपि महत्त्वं स्यात् अकारणापेक्षितया बहुत्वस्य तत्रापि सम्भवात् । तथा 20 (व्यणुक ?) व्यणुकस्यापि बहुत्वसंख्योपेतस्येव महदारम्भकत्वमिति। परं द्व्यणुकस्यैतत् कल्पनीयमिति । एकस्य चारम्भकत्वं प्रतिषिद्धम् । __ अथ चतुष्ट्वादिसंख्योपेतानामनियमेनारम्भकत्वमिति नेप्यते, साक्षाद्घटाद्यारम्भकत्वप्रसङ्गात् । तद्भङ्गे च अवान्तरकार्यस्यानुपलब्धिरेवानुत्पन्नत्वात् । न च बहुत्वं बिना महत्त्वं सम्भाव्यत इति त्रित्वसंख्योपेतानामेवा- 25 रम्भकत्वम् । तथाहि, व्यणुकानि, त्रित्वसंख्योपेतान्येव द्रव्यमारभन्ते, द्वित्वचतुष्टवादिपक्षे बाधकप्रमाणसद्भावे सति आरम्भकत्वात्, त्रितन्तुकारम्भ तन्तुत्रितयवत् ।
For Private And Personal Use Only