________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७७
गुणवैधर्म्यप्रकरणम् मन्यन्ते। तस्माच्चानन्तरं गवयना [मे ? मायमि]ति संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः। फलं संज्ञासंज्ञिरूपम्, संज्ञावच्छिन्नो वा पिण्ड: प्रमेयमिति । न च वाक्यादेव सङ्केतप्रतिपत्तिर्गवयपिण्डस्य परोक्षत्वात्, 'प्रत्यक्षं संज्ञाकर्म' (वै० सू०) इति सूत्रव्याघाताच्च ।
न युक्तमेतत्, वाक्यादेव सङ्केतस्य प्रतीतत्वात् । तथाहि, सादृश्य- 5 वाक्यस्यायमर्थो यो गोसदृशः, स गवय इत्येवं व्यवहर्तव्यः । स च वाक्यादुपलब्धसङ्केतः सादृश्यावच्छिन्नं पिण्डमुपलभमानः परं व्यवहरति 'अयं गवयः' इति, न तु सङ्केतं प्रतिपद्यते प्रतिपिण्डम्, अन्यत्रापि सङ्केतप्रसङ्गात् । तथाहि, यत्र यत्र गोत्वं पश्यसि, तत्र तत्र गोशब्द: प्रयोक्तव्यः, तस्माच्च असावर्थः प्रतिपत्तव्य इति सङ्केतग्रहे सति गोपिण्डोपलम्भादयं गौरिति प्रतिपद्यते, न तु 10 गोना [ मे ? मायमि] ति, व्यवहाराभावप्रसङ्गात् । न तु सूत्रव्याघातः, प्रत्यक्षशब्दस्य दृढप्रमाणोपलक्षणत्वात् । दृढप्रमाणपरिच्छिन्नेऽर्थे संज्ञा प्रवर्तते । यथा देशान्तरव्यवस्थितोऽपि पिता स्वपुत्रस्य नाम करोति 'यज्ञदत्त नामासौ' इति ।
___ अथ जातिशब्दस्य प्रत्यक्ष एवार्थे सङ्केतः, न, अतीन्द्रियेषु असङ्केत- 15 प्रसङ्गात् । दृष्टञ्च मनः शब्दस्यातीन्द्रियेऽपि मनसि दृढप्रमाणपरिच्छिन्ने सङ्केतः । तथा अयं गवय इति कथं पुनर्भवान् जानातीति परेण पृष्टो वनेचरेण ममाख्यातमिति वचनमेव निर्दिशति, न तु सादृश्यात् प्रतिपन्नमिति । कारकेण च व्यपदेशः । यथा चक्षुषा प्रतिपन्नमनुमानाच्च प्रतिपन्नमिति, तथा निर्विषयवाच्यप्रमाणमुपमानम् । अथास्ति संज्ञासंज्ञिरूपं प्रमेयम्, न, 20 सम्बन्धप्रतिपत्तेः फलत्वे सम्बन्धिनः प्रमेयत्वानुपपत्तेः । अथ सम्बन्ध इव सम्बन्धिनः प्रतिपत्तिरेव उभयनिष्ठतया उपचारेणाभिधीयते । तथापि न संज्ञासंज्ञिरूपं प्रमेयम्, संज्ञायास्तदभावात् । अथ स्वयमुच्चार्य शब्दं प्रतिपद्यते, न, विवक्षाक्रमेण शब्दोत्पत्तिकाले सादृश्यज्ञानस्य प्रमाणस्यासम्भवात् । अथ जगतो विस्तीर्णतया क्वचिदुत्पन्नो गवयशब्दः प्रमेयः, न, तस्याश्रूयमाणस्य 25 प्रमेयत्वानुपपत्तेः । अथ अप्रतिबन्धन्यायेन दूरस्थस्यागमने ब्रह्मभाषितस्यागमनं स्यात् ।
For Private And Personal Use Only