SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मवैधर्म्यप्रकरणम् २५७ संस्कारो मण्डलीभूतं धनुर्यथावस्थितं स्थापयति, तदा तमेव संस्कारमपेक्षमाणाद् धनुासंयोगाज्यायां शरे च कर्मोत्पद्यते, तत् स्वकारणापेक्षं ज्यायां संस्कारं करोति, तमपेक्षमाण इषुज्यासंयोगो नोदनम्, तस्मादिषावाद्यं कर्म नोदनापेक्षमिषौ संस्कारमारभते । तस्मात् संस्कारानोदनसहायात तावत् कर्माणि भवन्ति, यावदिषुज्याविभागः, विभागा- 5 निवृत्ते नोदने कर्माण्युत्तरोत्तराणि इषुसंस्कारादेव आपतनादिति । बहनि कर्माणि क्रमशः । कस्मात् ? संयोगबहुत्वात् । एकस्तु संस्कारः, अन्तराले कर्मणोऽपेक्षाकारणाभावादिति । तथा यन्त्रमुक्तेषु शरपाषाणादिषु गमनविधिः । कथम्, किं विशिष्टश्च पुरुषस्तान् प्रयुङ्क्ते, केन वा प्रकारेणेत्याह यो बलवान् कृतव्यायामो 10 ह्यस्नयन्त्रसिद्धः, वामेन करेण धनुर्विष्टभ्य दक्षिणेन शरं सन्धायेति, बाहुल्यापेक्षयैतत् । सह शरेण वर्तत इति सशरा, तां ज्यां मुष्टिना गृहीत्वेच्छां करोति 'सज्येषमाकर्षयाम्येनं धनुः' इति । सह ज्यया वर्तत इति सज्यः, स चासाविषुश्चेति तथोक्तः, तमेनं सज्येषुमाकर्षयामि धनुश्चेति । न च एनमिति पदं धनुःशब्देनाभिसन्धानीयम्, तस्य नपुंसकलिङ्ग- 15 तयैतद्धनुरिति स्यात् । अथोऽर्द्ध दिपाठात् प्रयोगदर्शनाद् वा कथञ्चिदुभयलिङ्गतेष्यते ? तथाप्येनं धनुषमिति स्यात्, नत्वेनं धनुरिति । पुंल्लिङ्गविवक्षायामपि इति शब्देन कर्मणोऽभिहितत्वात्, द्वितीयाविभक्तिर्न भवति इत्यन्ये । तदनन्तरम् इच्छानन्तरं प्रयत्नः, तमपेक्षमाणाद् आत्महस्तसंयोगाद् असमवायिकारणाद् हस्ते समवायिकारणे यदैव आकर्षणकर्मोत्पद्यते, 20 तदैव प्रयत्नमपेक्षमाणाद् हस्तज्याशरसंयोगाद् असमवायिकारणाद ज्यायां शरे च समवायिकारणे कर्मोत्पद्यते । प्रयत्नविशिष्टं हस्तज्यासंयोगम् अपेक्षमाणाभ्यां ज्याकोटिसंयोगाभ्याम् असमवायिकारणाभ्यां धनुष्कोटयोः समवेते कर्मणी भवतः । धनुषि च समवेतं कर्म ज्याधन :संयोगाद् असमवायिकारणाद् हस्तज्यासंयोगं विशिष्टमपेक्षमाणादित्येतत् सर्वं युगपदेकस्मिन् काले 25 भवति, कारणस्य यौगपद्यात् । ३३ For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy